________________
५२६
न्यायागमानुसारिणीवृत्त्यलङ्कतम् । [सप्तम उभयोभयारे भिधानप्रत्ययौ स्याताम् , पदार्थलक्षणव्यवस्थानाभावात् षट्पदार्थनिवृत्तिर्वा । कथम् ? समवायस्यैकत्वाद् द्रव्यत्वेन गुणकर्मणोः सम्बन्धाद् द्रव्यभावः, गुणकर्मभावयोर्हानिः । तत्त्वविशेषणभेदाद्धि तद्भेदः स्यात्, छत्रिदण्डिवत् ।
दिभिश्च सम्बन्ध इहलिङ्गाविशेषाद् विशेषलिङ्गाभावाञ्चैकः समवायः, तस्माद् द्रव्यत्वसम्बन्धाद् यथा 5 द्रव्ये द्रव्यबुद्धिं तथा गुणे कर्मणि च द्रव्यबुद्धिं कुर्यादिति सर्वस्य सर्वाभिधानप्रत्ययौ स्यातामिति सामान्येन सङ्करदोष उक्तः ।
पदार्थेत्यादि द्वितीयः सङ्करप्रकारः । पदार्थानां षण्णां द्रव्यादीनां लक्षणव्यवस्थानस्याभावात् षडपि पदार्था निवर्तन्ते इति । कथमित्यादि व्याख्या । समवायस्यैकत्वाद् द्रव्यत्वेन गुणकर्मणोः सम्बन्धाद्
द्रव्यभावो ,व्यत्ववत् , तयोश्च स्वरूपस्य गुणत्वस्य कर्मत्वस्य च हानिरिति दोषौ, तत्त्वविशेषणभेदाद्धि 10 तद्भेदः स्याच्छत्रिदण्डिवदिति वैधHदृष्टान्तः, छत्रविशिष्टश्छत्री, दण्डविशिष्टो दण्डी, न तथेह द्रव्यत्वस्य क्वचिद् भेदोऽस्ति ।
अन्यथा गुणजात्यादिभिन्न एव भवेदयम् । योगिभेदात् प्रतिव्यक्ति यथा योगो विभिद्यते ॥ ८४८ ॥ अन्यथेति, यदि द्रव्ये द्रव्यत्वस्य यः समवायः स एव गुणादिषु गुणत्वादीनां न भवेत् तदा संयोगवत् प्रत्याधारं समवायो भिद्यते । यच्चोक्तं 'द्रव्यत्वादिनिमित्तानाम्' इत्यादि तत्राह -द्रव्यत्वादिनिमित्तानां व्यतिरेको न युज्यते । धियां निमित्तसद्भावादतस्तन्नियमोऽपि न ॥ ८४९ ॥ द्रव्यत्वादीति, न विकले निमित्ते सति कार्यस्य व्यतिरेकोऽभावो युक्तः, अतत्कार्यत्वप्रसङ्गात् । ततश्च धियां व्यतिरेकायोगात् तस्याप्याधाराधेयभावस्य नियमो न युक्तः । ननु द्रव्ये एव द्रव्यत्वमाश्रितं स्थितमित्यादिव्यपदेशतो नियमो भविष्यतीत्याह-तदाश्रितत्वस्थानादि तस्मादेवाभिधीयते । समवायादतश्चैतन्न युक्तं तन्नियामकम् ॥ ८५०॥ तदाश्रितत्वेत्यादि। तस्मादेव हि समवायादाश्रितत्वादिव्यवस्थानमुपवर्ण्यते भवद्भिः, तस्य च सर्वत्राविशिष्टत्वे कथमेष नियमो योश्यते । तस्मादेतदप्याश्रितत्वादि न तस्याधाराधेयभावस्य नियामकं युक्तम् , आधाराधेयभावेन सहैकयोगक्षेमत्वादेषाम् । व्यङ्ग्यव्यञ्जकशक्तिप्रतिनियमात् तर्हि नियमो भविष्यतीत्याह-व्यायव्यजकसामर्थ्यमेदोऽपि समवायतः । नान्यतस्तु स नित्यानामुत्पादानुपपत्तितः॥ ८५१ ॥ व्यायेत्यादि । द्रव्यत्वादिसामान्यव्यञ्जकत्वं द्रव्यादीनां यदुच्यते तत् समवायबलादेव । तथाहि-यत एव द्रव्यत्वं द्रव्ये समवेतं तत एव तेन तद् व्यज्यत इत्युच्यते । अन्यत इति सौगतोपवर्णितात् ज्ञानोत्पादनयोग्यस्वभावोत्पादनात् । यस्मान्नित्यानामपि सत्तादीनां समवाय इष्टः; न च नित्यानामुत्पत्तिर्युक्ता । एतदेव न हीत्यादिना समर्थयते-न हि दीपादिसद्भावाजायन्ते यादृशा इमे । विज्ञानजनने योग्या घटाद्या जातयस्तथा ॥ ८५२ ॥ यश्चापि दधिकुण्डसंयोगो दृष्टान्तत्वेनोक्तः सोऽप्यस्माकमसिद्ध इति दर्शयति-कुण्डदनोश्च संयोग एकः पूर्व निराकृतः । न चासौ नियतस्तस्माद्युज्यतेऽतिप्रसङ्गतः॥ ८५३ ॥ कुण्डदनोरित्यादि । पूर्वमिति संयोगपदार्थदूषणे । भवतु नाम संयोग एकः, तत्रापि तुल्य एव प्रसङ्ग इति दर्शयति-न चासावित्यादि । तस्मादिति संयोगात् 'दन्नि कुण्डम्' इत्यादिबुद्धिप्रसङ्गोऽतिप्रसङ्गः संयोगस्य निमित्तस्य निर्विशिष्टत्वात् ।" इति शान्तरक्षितविरचिततत्त्वसङ्ग्रहस्य कमलशीलविरचितायां व्याख्यायां तत्त्वसङ्ग्रहपञ्जिकायाम् ॥
१ "सल्लिङ्गाविशेषादू विशेषलिङ्गाभावाच्चैको भावः[ वै० सू. १।२।१८] इति, 'एक'शब्देन अमेदः कथ्यते, न तु सङ्ख्या । लिङ्गयतेऽनेनेति लिङ्गं प्रत्ययः, येन लिङ्गेन 'सत् सत्' इति प्रत्ययेन प्रतीयते सत्ता तस्य सर्वत्राविशिष्टत्वाद् विशिष्टस्य च प्रत्ययस्याभावादभिन्ना सत्ता । [P. पृ० १.]।"द्रव्यत्वगुणत्वप्रतिषेधो भावेन व्याख्यातः [वै० सू० १२॥३०], यथैकद्रव्यवत्त्वान्न द्रव्यं भावो गुणकर्मसु च भावान्न कर्म न गुण एवं समवायोऽपि । तत्त्वं च [वै० सू० ॥२॥ ३१] इति, यथा सलिडाविशेषा[देको भावस्तथा इहलिङ्गाविशेषा देकः समवायो वृत्तिरहितो निलो निरवयवश्चति सप्तमोऽध्यायः समाप्तः ।" इति चन्द्रानन्दविरचितायां वैशेषिकसूत्रवृत्तौ P. पृ. २९ । दृश्यतां पृ० ५२४ पं० १७॥ २ दृश्यतां पृ० ५२९ पं० ४ ॥३ अत्र 'द्रव्यभावो द्रव्यवत्' इति पाठो यद्वा 'द्रव्यभावो द्रव्यत्वं द्रव्यवत्' इति पाठः स्यादिति सम्भाव्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org