________________
समवाये दोषप्रदर्शनम् ]
द्वादशारं नयचक्रम्
कार्यकारणाधाराधेयसमवायात् तौ भविष्यत इति चेत्, तयोर्गुणकर्मणोर्गुणकर्मभावनिवृत्तौ द्रव्यभावसम्बन्धे गुणकर्मणामनाश्रयत्वाद् द्रव्यस्य द्रव्यभावनिवृत्तिः । कार्यकारणाधाराधेयसमवायस्यैकत्वाद् गुणकर्मणोर्द्रव्यीभूतत्वाद् गुणकर्मभावनिवृत्तौ गुणकर्मणामनाश्रयत्वाद् न द्रव्यं क्रियावदादिलक्षणं न गुणकर्माणि तथालक्षणानीति द्रव्यस्यापि द्रव्यभावनिवृत्तिः । तथा द्रव्यगुण षट्पदार्थनिवृत्तिः ।
। परस्पर 5
कार्यकारणेत्यादि । कारणमाधारश्च द्रव्यम्, आधे कार्ये च गुणकर्मणी, तयोर्भिन्नयोः कार्यकारणयोराधाराधेययोश्च समवायात् तौ गुणकर्मभावौ भविष्यत इति चेत् एवं चेन्मन्यसे, मा संस्थाः, अत्रोत्तरम् - तयोर्गुणकर्मणोरित्यादि यावत् प्रथमद्रव्यभावनिवृत्तिरिति तावदुपदेशवचनम्, उपरितनो ग्रन्थस्तद्वयाख्या, गुणकर्मणोर्गुणकर्मभाव निवृत्तिद्वारेण द्रव्यस्य द्रव्यभावनिवृत्तिराख्यायते । तद्यथा - य 10 उक्तः कार्यकारणाधाराधेयसमवायस्तस्यैवैकत्वात् यो द्रव्यभावेन गुणकर्मणोः समवायः स एकस्तेन द्रव्येण ३५७-२ सम्बन्धात् ते गुणकर्मणी द्रव्यमेवैकं करोति, ततो गुणकर्मणी निवर्तेते, तन्निवृत्तौ द्रव्यमाश्रय्यभावाद् नाश्रयो न च कारणं समवायिनां गुणकर्मणामभावात्, ततो द्रव्यस्य द्रव्यलक्षणं नास्ति क्रियावद् गुणवत् समवायिकारणम् [ वै० सू० १|१|१४ ] इति, क्रियागुणाभावाद् न द्रव्यं तद्वत् ।
५२७
गुणकर्माणि तथा लक्षणानीति, 'इति' शब्दों हेत्वर्थे, यस्माद् न सन्त्येव तादृग्लक्षणानि 15 गुणकर्माणि तेषामाश्रयिणां समवायिनामभावात् तन्निवृत्तौ द्रव्यस्यापि द्रव्यभावनिवृत्तिः, गुणवत
१ ' तथा द्रव्यगुणकर्मणां व्यवस्थितलक्षणानामभावाद् निवृत्तौ द्रव्यत्वगुणत्व कर्मत्वादीनामप्याश्रयाभावादनुपपत्तिः । परस्परसङ्करात् पदार्थलक्षणव्यवस्थानाभावात् षट्पदार्थनिवृत्तिः । इत्याशयो भाति ॥ २ " अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध 'इह' प्रत्ययहेतुः स समवायः । द्रव्यगुणकर्मसामान्यविशेषाणां कार्यकारणभूतानामकार्यकारणभूतानां अयुत सिद्धानामाधार्याधारभावेनावस्थितानाम् 'इहेदम्' इति बुद्धिर्यतो भवति यतश्चासर्वगतानामधिगतान्यत्वानामविष्वग्भावः स समवायाख्यः सम्बन्धः । कथम् ? यथा 'इह कुण्डे दधि' इति प्रत्ययः सम्बन्धे सति दृष्टस्तथा 'इह तन्तुषु पटः, इह वीरणेषु कटः, इह द्रव्ये गुणकर्मणी, इह द्रव्यगुणकर्मसु सत्ता, इह द्रव्ये द्रव्यत्वम्, इह गुणे गुणत्वम्, इह कर्मणि कर्मत्वम्, इह नित्यद्रव्येऽन्त्या विशेषाः' इति प्रत्ययदर्शनादस्त्येषां सम्बन्ध इति ज्ञायते ।” इति प्रशस्तपादभाष्ये समवायनिरूपणे । अस्य न्यायकन्दली व्याख्या - " तुभ्यं भवभिदे विश्वसंहारोत्पत्तिहेतवे । निर्मलज्ञानदेहाय नमः सोमाय शम्भवे ॥ अथ समवायनिरूपणार्थमाह-अयुत सिद्धानामाधार्याधारभूतानां यः सम्बन्धः 'इह' प्रत्यय हेतुः स समवायः । तदेतत् कृतव्याख्यानमुद्देशावसरे । के तेsयुत सिद्धाः येषां सम्बन्धः समवायो भवेदत आह- द्रव्यगुणकर्मसामान्यविशेषाणामिति । कार्यकारणभूतानामकार्यकारणभूतानामिति अनियमकथनम् । अवयवावयविनामनित्यद्रव्यतद्गुणानां नित्यद्रव्यतत्समवेतानित्यगुणानां कर्मतद्वतां कार्यकारणभूतानां समवायः । नित्यद्रव्यनित्यतद्गुणानां सामान्यतद्वतामन्त्यविशेषतद्वतां चाकार्यकारणभूतानां समवायोऽयुतसिद्धानामिति नियमः । एवमाधार्याधारभावेनावस्थितानामित्यपि नियम एव । ' इहेदम्' इति बुद्धिर्यतः कारणाद् भवति यतश्चासर्वगतानां नियत देशावस्थितानामधिगतान्यत्वानामधिगतखरूपभेदानामविष्वग्भावोऽपृथग्भावोऽस्वातन्त्र्यं स समवायः भिन्नयोः परस्परोपश्लेषस्य सम्बन्धकृतत्वोपलम्भात् । एतदेव 'कथम्' इत्यादिना प्रश्नपूर्वकमुपपादयति । यथा 'इह कुण्डे दधि' इति प्रत्ययः कुण्डदनोः सम्बन्धे सति दृष्टः तथा 'इह तन्तुषु पट:' इत्यादिप्रत्ययानां दर्शनादस्त्येषां तन्तुपटादीनां सम्बन्ध इति ज्ञायते । 'इह तन्तुषु पटः' इत्यादिप्रत्ययाः सम्बन्धनिमित्ताः, अबाधितेहप्रत्ययत्वात्, 'इह कुण्डे दधि' इति प्रत्ययवत् ।" इति न्यायकन्दल्याम् ॥ ३ ंस्तस्यैवेकत्वात् प्र० । अत्र तस्यैकत्वात् इत्यपि पाठः स्यात् ॥ ४ ततो द्रव्यलक्षणं भा० ॥ ५ दृश्यतां पृ० ४४० टि० ५ ॥
Jain Education International
For Private & Personal Use Only
·
www.jainelibrary.org