________________
५२८
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [सप्तम उभयोभयारे यच 'न, बहूनामेकत्वात् । बहूनां द्रव्यादीनामेकः समवायः, न तु द्वयोर्द्वयोः.........
समवायिकारणं क्रियावदद्रव्यमनेकद्रव्यं वा द्रव्यं स्यात् , तच्चेत्थं नाद्रव्यं नानेकद्रव्यं सम्भवति । तस्माद् गुणकर्मणां गुणकर्मभावनिवृत्तौ द्रव्यभावसम्बन्धे सति गुणकर्मणामनाश्रयत्वाद् द्रव्यस्य द्रव्यभावनिवृत्तिरिति द्रव्यपदार्थनिवृत्तिरुक्ता । अथवा त्वदिष्टेन द्रव्यत्वेन सर्वगतेन सम्बन्धे सति गुणस्य कर्मणो वा द्रव्यं द्रव्यत्वेन 5 सम्बद्धमिति द्रव्यीभावः, तद्भावाद् गुणकर्मणी न द्रव्याश्रिते, ततो द्रव्यलक्षणायुक्तेर्द्रव्यभावनिवृत्तिः, ३५८-१ किं द्रव्यलक्षणमिति चेत् , उच्यते-क्रियावद् गुणवत् समवायिकारणम् [ वै० सू० १॥३॥१४] इति,
तत्तु कार्यकारणाधाराधेयसमवायस्यैकत्वाद् गुणकर्मणोव्यीभूतत्वात् 'क्रियावेदादिलक्षणं नास्ति, यस्माद् न तु गुणकर्माणि तथालक्षणानीति गुणस्य द्रव्याश्रय्यादिलक्षणत्वात् ऐकद्रव्यादिलक्षणत्वात् कर्मणः ।
एवं स्वलक्षणाभावापेक्षा द्रव्यस्य द्रव्यभावनिवृत्तिर्गुणकर्मलक्षणायुक्तेरिति । ततश्च द्रव्यस्यापीत्यादि आश्रया10 भावाद् गुणकर्माभावमापाद्य आश्रय्यभावेऽपि द्रव्यस्याश्रयस्याभाव इति गतार्थम् । एवं गुणकर्मणोरपि
गुणकर्मलक्षणाव्यवस्थानाद् गुणकर्मभावनिवृत्तिरुक्ता वेदितव्या । एवं तावद् द्रव्यगुणकर्मणां व्यवस्थितलक्षणाभावाद् निवृत्तिः।
तथा द्रव्यगुणेत्यादि । द्रव्यत्व[-गुणत्व-]कर्मत्वादीनामाश्रयाभावादनुपपत्तिः सामान्यविशेषाणाम् । आदिग्रहणात् सत्तायाः । तद् व्याचष्टे-परस्परेत्यादि भावितार्थं यावत् षट्पदार्थनिवृत्तिरिति । 15 यच्चेत्यादि । आधाराधेयभावेन भेदे सति संयोगवद् द्विवृत्तित्वात् समवायस्य ततश्चानित्यत्वं
स्यात् [ ] इति पूर्वपक्षं कृत्वा परिहारमाह वैशेषिकः -न, बहूनामेकत्वात् , बहूनां द्रव्यादीनामेकः समवाय इति स्वरूपवर्णनं द्विवृत्तिप्रतिषेधार्थम् । न तु द्वयोर्द्वयोरित्यादि संयोगेन वैधयं
१ 'बहूनां द्रव्यादीनामेकः समवायः, न तु द्वयोद्वयोः । द्वयोद्वयोर्यथा संयोगः, न तथा द्वयोर्द्वयोः समवायः । तस्मान्नानित्यत्वं समवायस्य ।' इत्याशयो भाति ॥ २ द्रव्यत्वेनासम्बद्धमिति द्रव्याभावः प्र०॥ ३ दृश्यतां पृ० ४४० टि०५॥ ४ व्याभूत य० ॥ ५ वदलक्षणं प्र०॥ ६ यत्वेत्यादि भा० । (यत्त्वित्यादि ?) ॥ ७ (द्विवृत्तित्वं?) ॥ ८ समवायस्य द्विवृत्तित्वे सम्बन्धिनाशे संयोगवदनित्यत्वापत्तिरित्याशयो भाति ॥ ९ दृश्यतां पृ० ५२४ टि.३। “सम्बन्ध्यनित्यत्वेऽपि न संयोगवदनित्यत्वं भाववदकारणत्वात् । यथा प्रमाणतः कारणानुपलब्धेनित्यो भाव इत्युक्तं तथा समवायोऽपीति । न ह्यस्य किञ्चित् कारणं प्रमाणत उपलभ्यत इति ।" इति तु समवायनित्यत्वं समर्थितं प्रशस्तपादभाष्ये । अस्य न्यायकन्दली व्याख्या पृ० ५२३ टि० २ इत्यत्र द्रष्टव्या । अस्य प्रशस्तपादभाष्यमतस्य खण्डनं तत्त्वसङ्ग्रहपञिकायामित्थमस्ति-“यच्चोक्तं 'कारणानुपलब्धेर्नित्यः समवायः' इति तत्राहनित्यत्वेनास्य सर्वेऽपि नित्याः प्राप्ता घटादयः । स्वाधारेषु सदा तेषां समवायादवस्थितेः॥ ८५४ ॥ नित्यत्वेनेत्यादि । यदि हि समवायो नित्यः स्यात् तदा घटादीनामपि नित्यत्वप्रसङ्गः स्वाधारेषु तेषां सर्वदावस्थानात् । तथाहि-समवायास्तित्वादेवैषां स्वाधारेष्ववस्थानमिष्यते, स च समवायो नित्य इति किमिति सदाऽमी न सन्तिष्ठेरन् । स्वारम्भकेत्यादिना परस्योत्तरमाशङ्कते-खारम्भकविभागाद् वा यदि वा तद्विनाशतः। ते नश्यन्ति क्रियाद्याश्च योगादेरिति चेन्न तत् ॥ ८५५ ॥ वाधारे समवायो हि तेषामपि सदा मतः । तेषां विनाशभावे तु नियताऽस्यापि नाशिता ॥ ८५६ ॥ स्यादेतत् - घटादीनां ये खारम्भकावयवास्तेषां विभागाद् विनाशाद्वा घटादीनां विनाशः, यथा घटस्योद्वेष्टनपाकावस्थयोः क्रियादयः स्पर्शवद्रव्यसंयोगादिभ्यो विनश्यन्ति । यथोक्तम् - 'स्पर्शवद्व्यसंयोगात् कर्मणो नाशः ।' 'कार्यविरोधि च कर्म' [वै० सू० १।१।१३ ] इति । तथा बुद्धेर्बुद्ध्यन्तराद् विनाशः शब्दस्य शब्दान्तरादिति परप्रक्रिया। तेन सत्यपि समवायेऽवस्थितिहेतौ सहकारिकारणान्तराभावाद् विरोधिप्रत्ययोपनिपाताच न नित्यत्वप्रसङ्गो घटादीनामिति परस्य भावः । न तदित्यादिना प्रतिषेधति । नैतद् युक्तम्, यतस्तेषा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org