________________
५२९
प्रशस्तमतिमतखण्डनम्]
द्वादशारं नयचक्रम् समवायस्य' [ ] इति, एतेनापि सङ्करप्रसङ्गस्तदवस्थ एव बहूनामेकसमवायाभ्युपगमात् । ततः षडपि पदार्थी निवर्तिताः।
गतार्थ यावत् समवायस्येति । आचार्य आह - एतेनापीत्यादि । एतेनानित्यत्वपरिहारवचनेनापि सङ्करप्रसङ्गः सामान्येन व्यवस्थानाभावात् सर्वत्र सर्वांधेयवृत्तौ सर्वाभिधानप्रत्ययसङ्करः विशेष्य च पदार्थलक्षणव्यवस्थानासम्भवात् षपदार्थनिवृत्तिवेत्यादिरुक्तः तदवस्थ एव दृढीकृतः, बहूनामेकसमवाया-5 भ्युपगमात् , ततः सङ्करादुक्तात् षडपि पदार्था निवर्तिताः, तन्निवृत्तौ समवाय्यभावात् समवायनिवृत्ते-३५८-२ स्तस्यासतः ख कुतो नित्यत्वमनित्यत्वं वा? मपि वारम्भकावयवानां कपालादीनां वारम्भकेष्ववयवान्तरेषु समवायः, तेषामप्यन्येष्वन्येषु यावत् परमाणुरवशिप्यते । तस्य च परमाणोर्नित्यत्वात् नान्यथात्वमस्ति । ततश्च सर्वेषां स्वारम्भकेष्ववयवेषु समवायः सर्वदास्त्येवेति कुतो विनाशो विभागो वा । न केवलं तदारब्धानां द्रव्याणाम् , 'क्रियादीनां च' इति अपिशब्देन दर्शयति । यदि तु वारम्भकाणामवयवानां विनाशोऽभ्युपगम्येत तदा नियतमस्य समवायस्यापि विनाशः प्राप्नोति । कस्मादित्याह-सम्बन्धिनो निवृत्तौ हि सम्बन्धोऽस्तीति दुर्घटम् । न हि संयुक्तनाशेऽपि संयोगो व्यवतिष्ठते ॥ ८५७ ॥ यथा संयोगभावे तु संयुक्तानामवस्थितिः । समवायस्य सद्भावे तथा स्यात् समवायिनाम् ॥ ८५८ ॥ सम्बन्धिनो निवृत्तौ हीत्यादि । एतदेव घटयन्नाह - न हीत्यादि । ततश्च विनष्टसम्बन्धित्वान्नष्टसंयोगिसंयोगवदनित्यः समवायः प्राप्नोतीत्युक्तं भवति । सम्बन्धिनां वा स्थितिः प्राप्नोति, अविनष्टसम्बन्धत्वात्, अनुपरतसंयोगद्रव्यद्वयवत् । अन्यथा तत्सम्बन्धस्वभावहानिरुभयेषामपि प्रसज्येत । एकसम्बन्धिनाशेऽपीत्यादिना परः प्रत्यवतिष्ठते - एकसम्बन्धिनाशेऽपि समवायोऽवतिष्ठते । अन्यसम्बन्धिसद्भावाद् योगो नो चेन्न भेदतः ॥ ८५९ ॥ एवं मन्यते- यदि प्रथमे हेतौ विनष्टाशेषसम्बन्धित्वादिति हेत्वर्थोऽभिप्रेतः तदा पक्षकदेशासिद्धता हेतोः । न ह्यशेषाणां सम्बन्धिनां विनाशः क्वचिदस्ति, प्रलयेऽपि परमाण्वादीनामवशिष्यमाणत्वात् । अथ यथाकथञ्चिद् विनष्टसम्बन्धित्वसम्बन्धमधिकृत्य हेतुरुच्यते तदाऽनैकान्तिकता। यदि नामैकः सम्बन्धी क्वचिद् विन्ष्टस्तथाप्यपरसम्बन्धिनिबन्धनाऽवस्थितिरस्य भविष्यति । यद्येवं संयोगस्याप्यनया नील्या नित्यत्वं प्राप्नोतीत्याशय परः प्रतिविधत्ते - न भेदत इति । संयोगो हि प्रतियोगि भिद्यते, तेनास्यानित्यत्वं युक्तम् , समवायस्तु 'इह'प्रत्ययनिबन्धनस्याभिन्नत्वादेक एव जगति, तेनास्यानित्यत्वमयुक्तमन्यत्रापि सम्बन्ध्यन्तरे तस्योपलभ्यमानत्वात् । यद्येवमित्यादिना प्रतिविधत्ते - यद्येवं ये विनश्यन्ति घटाद्याः समवायिनः । तेषां वृत्त्यात्मको योऽसौ समवायः प्रकल्पितः ॥ ८६०॥ स एव व्यतिष्ठेत किं सम्बन्ध्यन्तरस्थितेः । अथान्य एव सम्बन्ध[:] संयोगबहुतादिवत् ॥ ८६१॥ तद्वत्तिलक्षणस्यैव समवायस्य संस्थितौ। पूर्ववत् ते स्थिता एव प्राप्नुवन्ति घटादयः ॥ ८६२ ॥ एतेषामनवस्थाने तेषां वृत्त्यात्मकः कथम् । समवायोऽवतिष्ठेत संज्ञामात्रेण वा तथा ॥ ८६३ ॥ अतः प्रागपि तद्भावान ते वृत्ताः स्युराश्रये । पश्चादिव तथा ह्येषा वृत्तिस्तेषामवस्तुनः ॥ ८६४ ।। तथाहि -ये ते विनश्यन्ति घटादयः स्वकारणादिसमवायिनस्तेषां खकारणेषु वृत्त्यात्मको योऽसौ समवायः कल्पितः स एव किं तेषु विनष्टेषु सम्बन्ध्यन्तरेष्वस्ति आहोखिदन्य एव यथा संयोगो बहुत्वं वा प्रतिसंयोगि भिद्यते । आदिशब्दाद् विभागादिपरिग्रहः । तत्र यद्याद्यः पक्षः तदा प्रागवस्थावदप्रच्युतप्रवृत्तित्वादवस्थिता एव घटादयः प्राप्नुवन्ति, तेषां वा घटादीनामनवस्थानेऽनवस्थितप्रवृत्तित्वान्नावस्थितिः समवायस्य प्राप्नोति, अन्यथा न वृत्त्यात्मकः स्यात् । तथाभूतस्य च खतन्त्रस्यानुपकारिणो वृत्तिः समवाय इति वा नामकरणे संज्ञामात्रमेव स्यात्, न तु वस्तुतथाभावः । तथेति तद्वृत्त्यात्मक इत्येवम् , ततः संज्ञामात्रान्वयो दोषः, तं दर्शयति-अत इत्यादि । प्रागपि सम्बन्धिनाशात् , अविनष्टसम्बन्ध्यवस्थायामपीत्यर्थः, ते घटादयः स्वाश्रये वृत्तास्तस्य समवायस्य भावात् सद्भावबलान सिध्येयुः, पश्चादिव विनष्टसमवायिकारणवत् परमार्थतो वृत्त्यभावात् । तथाहीत्यादिना हेत्वर्थ दर्शयति । अथान्य एव संयोगविभागबहुतादिवत् । सम्बन्ध्यन्तरसद्भावे समवायोऽवतिष्ठते ॥ ८६५॥ संयोगादिवदेवं हि नन्वस्य बहुता भवेत् । एवमाद्यस्य सद्भावे बहु स्यादसमञ्जसम् ॥ ८६६ ॥ अथान्य एवेति द्वितीयः पक्षस्तदा संयोगादिवत् समवायबहुत्वं प्राप्नोति । ततश्च 'न समवायो भेदवान्' इत्यस्याभ्युपेतस्य हानिः । एवमादीत्यादिशब्देन ... . . . . . 'दोषान्तरपरिग्रहः ।" इति [जेसलमेरस्थायां] तत्त्वसङ्ग्रहपन्जिकायां समवायपदार्थपरीक्षावसरे, [ अत्र स्थूलाक्षरनिर्दिष्टः पाठो जेसलमेरस्थहस्तलिखितपुस्तकानुसारेण ज्ञेयः] । सन्मति० वृ० पृ० ७०३ ॥
१ दृश्यतां पृ० ५२४ पं० २, पृ. ५२६ पं० १॥
नय०६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org