________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ सप्तम उभयोभयारे
तु प्रत्युक्तम् — नं, आधाराधेयनियमात् । यद्यप्येकः समवायः सर्वत्र स्वतन्त्रस्तथाप्याधारानियमोsस्ति । कथम् ? 'द्रव्येष्वेव द्रव्यत्वम्, गुणेष्वेव गुणत्वम्, कर्मस्वेव कर्मत्वम्' इति [ वै० सू०
प्रशस्तमति० ] । ऐतदपि प्रत्युक्तम् "प्रतिनियतानि ।
]
| सर्वत्र तावद्
यत्तूच्यते - अवगम्यतां तावत् ... समवायैकत्वेऽप्याधाराधेयनियमः स्यात् [ इति इदमपि स्ववादविहितोत्तरमार्गम् । न तु तथा द्रव्यद्रव्यत्वादिसमवाये द्विवृत्तित्वं सम्बन्धिद्वयविशिष्टाभिधानप्रत्ययत्वात् कुण्डदध्यादिसंयोगवत् । द्रव्यगुणयोः । तथा च ' "अनित्यतैव ।
25
५३०
यत्तु प्रत्युक्तमित्यादि सङ्करदोषस्य यदुत्तरमुक्तम्- न, आधाराधेयनियमादिति । यद्यप्येक इत्यादि तद्वयाख्या यावत् कर्मस्वेव कर्मत्वमिति, 'सर्वत्र चैकः समवायः' इत्यनेन द्विवृत्तित्वपरिहारेणा10 नित्यत्वमपि परिहृतमिति वैशेषिकः । आचार्य आह - एतदपि प्रत्युक्तमित्यादि गतार्थं यावत् प्रतिनियतानीति । 'द्विवृत्तित्वमेवास्य' इति च वक्ष्यति ।
यत्तूच्यते - अवगम्यतां तावदित्यादि इदं तस्य दोषपरिहारप्राणसर्वस्वमन्वयव्यतिरेकाभ्यामनियमातिप्रसङ्गाभावभावनं गतार्थं यावत् समवायैकत्वेऽप्याधाराधेयनियमः स्यादिति । अत्राचार्य आह - इदमपीत्यादि, स्ववादेनैवोत्तरमार्गो विहितोऽस्य वचनस्य त्वया 'इहेदम्' [ वै० सू० प्रशस्तैमति० ] इत्यादिना 15 समवायलक्षणं व्याचक्षाणेन आधार राधेयसम्बन्धज्ञानलक्षणत्वात् कार्यकारणयोश्चाधाराधेयभावात् सम्बन्धिनोः कुण्डदधिदृष्टान्तेन च सुभावितोऽयमर्थ:, तेनैव वयं ब्रूमः - न तु तथेत्यादि, न तु तथा सङ्कराभावो घटते उत्तरप्रकारेण, कुण्डदधिसंयोगदृष्टान्ते यदि दधिमधूदकादिभिर्बहुभिराधेयैः कुण्डाधारः संयुक्तो भवति ततः किमिति सङ्करो नास्ति ? तथा यदि सर्वात्मकः समवायो द्रव्य-गुण-कर्म- द्रव्यत्व-गुणत्व-कर्मत्व-सत्ताद्याधार एक एव भवति तदा किमिति सङ्करो न स्यात् ? नापि च द्विवृत्तित्वनिवृत्तिः समवायस्य यतः 20 संयोगाद् वैधर्म्यमुच्यते त्वया 'द्वयोर्द्वयोः' [ ] इत्यादिना । तत्र साधनम् - सर्वत्र तवद् द्रव्यद्रव्यत्वादिसमवाये द्विवृत्तित्वं त्वयैवोपवर्ण्यते, साधयामश्चैतद् द्विवृत्तित्वं सम्बन्धिद्वय विशिष्टाभिधानप्रत्ययत्वात् कुण्ड दध्यादिसंयोगवत्, यथा कुण्डध्नोः संयोगे दध्ना कुण्डेन वा विशिष्टे तन्निमित्तमभिधानं प्रत्ययश्च दृश्यते दधिकुण्डं कुण्डदधि वेति तद्दिवृत्तित्वं च तथा समवायेऽपि द्रव्यगुणयोरित्यादि द्विवृत्तिवर्णनम् । तस्मात् त्वत्पूर्वपक्षितदोषासङ्गस्तदवस्थः समवायस्येत्यत आह- तथा चेत्यादि यावदनित्यतैवेति गतार्थम् ।
३५९-१
१ दृश्यतां पृ० ५२४ पं० १९, पृ० ५२५ पं० २५ ॥ २ 'एतदपि प्रत्युक्तं सर्वत्रैकत्वे समवायस्य आधाराधेयनियमाभावात्, द्विवृत्तित्व एव हि द्रव्यादिषु द्रव्यत्वादीनि प्रतिनियतानि ।' इत्याशयो भाति ॥ ३ 'अवगम्यतां तावदन्वयव्यतिरेकदर्शनात् । 'इह' इति समवायनिमित्तस्य ज्ञानस्यान्वयदर्शनात् सर्वत्रैकः समवाय इति गम्यते । द्रव्यत्वादिनिमित्तानां व्यतिरेकदर्शनात् प्रतिनियमो ज्ञायते । यथा कुण्डदनोः संयोगैकत्वे भवत्याश्रयाश्रयिभावनियमः तथा द्रव्यत्वादीनामपि समवायैकत्वेऽपि आधाराधेय नियमः स्यात्' इत्याशयो भाति, दृश्यतां पृ० ५२४ टि० ३ ॥ ४ 'न तु तथा सङ्कराभावो घटते । यदि सर्वात्मकः समवायो द्रव्याद्याधार एक एव तदा किमिति सङ्करो न स्यात् ? नापि च द्विवृत्तित्वनिवृत्तिः समवायस्य' इत्याशयो भाति ॥ ५ ' द्रव्यगुणयोः द्रव्यकर्मणोः द्रव्यद्रव्यत्वयोः गुणगुणत्वयोः कर्मकर्मत्वयोश्च समवायः इत्यभिधानप्रत्ययौ दृश्येते । तथा च आधाराधेयभावेन भेदे संयोगवद् द्विवृत्तित्वात् समवायस्यानित्यतैव ।' इत्याशयो भाति । दृश्यतां पृ० ५२८ टि० ८ ॥ ६ङ्गभावभावभावतं भा० । 'ङ्गभावभावगतं पा० वि० । ङ्गभावगतं डे० रं० ॥ ७ दृश्यतां पृ० ५२७ टि०२ ॥ ८° दृष्टान्तो प्र० ॥ ९ दृश्यतां पृ० ५२८ पं० १७ ॥ १० वावद्रव्य प्र० । ११ सम्बन्धे द्वय प्र० ॥ १२ ( दृश्येते ? ) ॥ १३ ( द्विवृत्तित्ववर्णनम् ? ) ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org