________________
द्वादशारं नयचक्रम्
५३१
प्रशस्तमतिमतखण्डनम् ] यत्विदम्
"ज्ञानमित्यादि, अनेन खपक्षे प्रत्यक्षविरोध उद्वाह्यते त्वया, ने हि...... एवं ते समवायैकत्वे द्रव्येष्वपि गुणज्ञानं स्याद् गुणज्ञानकारणत्वात् समवायस्य गुणवत् ।
एकत्वे योऽयं द्रव्यस्य द्रव्यभावेन सम्बन्धः स एव गुणस्यापीति द्रव्यस्यापि गुणत्वम् । गुणत्वाभिसम्बन्धाच्च तस्य द्रव्यभावहानिः । तैस्य निवृत्तिः । तस्य द्रव्यस्य गुणभावेन सम्बद्धत्वाद् गुणीभूतत्वाद् गुणानाश्रयत्वादभाव इति गुणभावनिवृत्तिर्गुणस्य तल्लक्षणानुपपत्तेः । क्रियावद् गुणवत् समवायिकारणमिति द्रव्यलक्षणम् । द्रव्याश्रयी अगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् [ वै० सू० १1१1१४-१५]। ततश्च..... । किं कारणम् ? ..... ।
यत्त्वमित्यादि परोक्तमेव ग्रन्थमतिदिशति यावज्ज्ञानमित्यादि, द्रव्यादीनामाधाराणां द्रव्यत्वा- 10 दिभिराधेयैः परस्परव्यतिरिक्तैर्विशेषणैर्नियमो भवति स्वतत्त्वानुरूपप्रत्ययोत्पत्तेरिति । अत्रोच्यते - अनेन स्वपक्षे प्रत्यक्षविरोध उद्भाह्यते त्वया । कथम् ? न हीत्यादिना भावयति, हिशब्दो हेत्वर्थे, यस्मात् समवाय एकस्तस्माद् द्रव्यादिद्रव्यत्वादिभिरविशिष्टत्वाद् व्यतिरेको नियमच नास्ति, अतो द्रव्येष्वेव ‘द्रव्यम्' इति ज्ञानं न स्यात् । तस्य व्याख्या - एवमित्यादि, एवं ते समवायैकत्वे द्रव्येष्वपि गुणज्ञानं स्यादविशिष्टत्वाद् गुणेष्विव । अपिशब्दात् कर्मस्वपि । किं कारणम् ? गुणज्ञानकारणत्वात् सम- 15 वायस्य किमिव ? गुणवदिति, गुणेष्विव गुणवत् इति साधनम् ।
1
तदेव व्याचष्टे - एकत्वे योऽयमित्यादि यावद् द्रव्यस्यापि गुणत्वम् । यदि दधिमधूदकादीनां कुण्डसङ्कीर्णानामविवेके नियमेन 'अयमस्यैव स्वभावः' इत्यशक्यमवधारयितुं संयोगे 'दधिकुण्डमेव, मधु - कुण्डमेव, उदककुण्डमेव वा' इति एकत्वात् संयोगस्य सर्वेणापि सम्बन्धात्, तथात्रापि यो द्रव्यभावेन ३५९-२ सम्बन्धः स एव र्गुणस्यापि इति एतस्मात् कारणात् प्राप्तं गुणत्वं द्रव्यस्यापि गुणभाव:, द्रव्यं गुणो 20 भवतीत्यर्थः । गुणत्वाभिसम्बन्धाच्च तस्य द्रव्यभावहानि:, एवं गुणभावापत्तौ द्रव्यभावो हीयत इति पररूपतामापाद्य स्वरूपत्यागमापादयति । तस्येत्यादि व्याख्यानसाधनं यावद् निवृत्तिः । द्रव्यं गुणभावेन सम्बद्धत्वात् त्यक्तद्रव्यभावं गुणवदिति । एवं तावद् द्रव्यस्य गुणत्वापत्तिर्द्रव्य [व] त्यागचानवस्थाने ।
तस्य द्रव्यस्येत्यादि । तद् द्रव्यं गुणभावेन सम्बद्धमतो गुणीभूतं नाश्रयो गुणान्तरस्येति, द्रव्यमनाश्रितस्य च गुणस्याभाव:, ततो गुणानाश्रयस्य द्रव्यस्याप्यभावः, तदभावादसति द्रव्ये कस्य गुणः ? इति 25 गुणभावनिवृत्तिर्गुणस्य तल्लक्षणानुपपत्तेः । 'क्रियावत्' इत्यादिसूत्रद्वयेन लक्षणं दर्शयति । ततश्चेत्याटार्थोनयः । किं कारणम् ? इत्यादि कारणप्रश्नपूर्वके पूर्ववदत्रापि देव्यत्वापत्तिगुणत्वत्यागौ द्वे अनवस्थाने ।
१ 'यत्त्विदमभिधीयते 'द्रव्यगुणकर्मणां द्रव्यत्वादिभिः परस्परव्यतिरिक्तैर्नियमाद् द्रव्येष्वेव द्रव्यज्ञानम्' इत्यादि, अनेन स्वपक्षे प्रत्यक्षविरोध उद्भाह्यते त्वया ।' इत्याशयो भाति ॥ २ ‘न हि समवायैकत्वेऽविशिष्टत्वाद् व्यतिरेको नियमश्चास्ति, अतो द्रव्येष्वेव द्रव्यज्ञानं न स्यात् । इत्याशयो भाति ॥ ३ ' तस्य द्रव्यस्य गुणभावेन सम्बद्धत्वाद् गुणवद् द्रव्यभावनिवृत्तिः' इत्याशयो भाति ॥ ४ दृश्यतां पृ० ४४० टि० ५ ॥ ५ द्रव्यादि भा० प्रतौ नास्ति ॥ ६ ( गुणत्वस्यापि ? ) ॥ ७ व प्र० । गुणत्वापत्तिद्रव्यत्वत्यागौ द्वे अनवस्थाने इत्यर्थः ॥ ८ गुणभूतं य० ॥ ९ गुणत्वापत्तिगुणत्वात्यागt भा० । ( गुणस्य द्रव्यत्वापत्तिगुणत्वत्यागौ ? ) ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org