________________
५३२
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [सप्तम उभयोभयारे तथा योऽयं गुणस्य कर्मत्वेन..... न गुणकर्मणी तथालक्षणे। तयोरलक्षणत्वादसत्त्वादाश्रयत्वोपलक्ष्यद्रव्याभावः। तदभावादाश्रयिणां द्रव्यत्वादीनामप्यभावः। एवं द्विकसंयोगेन चतुर्विंशतिरनवस्थाचक्रकाणि भवन्ति तथा कार्यकारणयोः...... गुणस्येत्यादेः। 5 ननु सर्वगतत्वात् समवायस्य स्वतत्त्वेनापि सम्बन्धात् तत्त्वं सिध्यति । नन्वत एव सङ्कर उच्यते परतत्त्वेनापि सम्बन्धादतत्त्वमपीति ।
एवं च स्वविषयसर्वगतानि तत्त्वानि समवायस्य सर्वगतैकत्वाभ्यां सर्वगतानि प्राप्तानि । 'अतो द्रव्यगुणकर्मणाम्... 'कर्मसु कर्मज्ञानम् ।
तथा योऽयं गुणस्य कर्मत्वेनेत्यादि कर्मणा सह पररूपापत्तिः स्वरूपत्यागश्च द्वे अनवस्थाने 10 लक्षणायोगद्वारेण सव्याख्याने गतार्थे यावद् न गुणकर्मणी तथालक्षणे इति लक्षणाभावापादनम् । तयोरलक्षणत्वादसत्त्वात् , तयोर्गुणकर्मणोरलक्षणत्वादसत्त्वं खपुष्पवत् , तदसत्त्वादाश्रयत्वोपलक्ष्यद्रव्याभावः,
गुणकर्मणोरुपलक्षणयोराश्रयिणोरभावाद्वाश्रयो द्रव्यं नास्ति औष्ण्याभावेऽन्यभाववत् उपलक्षणाभावात् खपु३६०-१ ष्पवद्वा । तस्मिंश्चासति द्रव्ये निराश्रययोर्गुणकर्मणोरभावाद् द्रव्यस्य चाभावादाश्रयिणां द्रव्यत्वादीनामप्य
भावः, उक्तं हि – उत्पन्नमाश्रयमाश्रयन्त्याश्रयिणः [ ] इति । 20 एवमेतानि द्विकसंयोगेन ,व्यस्य गुणेन सह कर्मणा च द्वे, गुणस्य द्रव्येण कर्मणा च सह द्वे,
कर्मणो द्रव्येण गुणेन च सह द्वे, इति षट् चक्रकाणि । द्रव्यत्वेन गुणस्य कर्मणश्च द्वे, गुणत्वेन द्रव्यस्य कर्मणश्च द्वे, कर्मत्वेन द्रव्य[स्य] गुणस्य [च] द्वे, इति षट् । एवं द्वादश चक्रकाणि । एवं द्रव्यत्वस्य कर्मणा गुणेन च गुणत्वस्य द्रव्येण कर्मणा च कर्मत्वस्य द्रव्येण गुणेन च षट् चक्रकाणि । द्रव्यस्य गुणत्वेन कर्मत्वेन च, गुणस्य द्रव्यत्वेन कर्मत्वेन च, कर्मणो द्रव्यत्वेन गुणत्वेन च षट्, तान्यपि द्वादश । एवं द्विक25 संयोगेन चतुर्विंशतिरनवस्थाचक्रकाणि भवन्ति । कस्मात् ? तथा कार्यकारणयोरित्यादि यावद् गुणस्येत्याँदेरिति हेतुं व्याख्यातमेवोपनयति ।
___ आह-ननु सर्वगतत्वादित्यादि । समवायस्य सर्वगतत्वात् स्वतत्त्वेनापि सम्बन्धोऽस्ति, द्रव्यस्य द्रव्यत्वं स्वतत्त्वम् , एवं शेषयोरपि शेषद्वयम् । सर्वेण सह समवायसद्भावात् स्वेनापि तत्त्वेन सम्बन्धात् तद्भावस्तत्त्वं द्रव्यभावो गुणभावः कर्मभावो वा सिध्यतीति । अत्रोच्यते-नन्वत एव सङ्कर उच्यते 30 परतत्त्वेनापि सम्बन्धादतत्त्वमपीति । इति हेत्वर्थे, यस्मात् परतत्त्वेनापि सम्बन्धस्तस्मात् तद्भावोऽपि
अतद्भावोऽपीति सङ्करदोषाविमोक्षः, अपिशब्देन त्वदुक्तेनैव समर्थितत्वात् । किञ्चान्यत् , दोषोपचयश्च, एवं
१'अतो द्रव्यगुणकर्मणां व्यवस्थितानामभावात् न द्रव्येषु द्रव्यज्ञानं गुणेषु गुणज्ञानं कर्मसु कर्मज्ञानम् ।' इत्याशयो भाति ॥ २ दृश्यतां पृ० ४५५ पं० १८॥ ३ द्रव्यगुणेन प्र० ॥ ४ चक्राणि य० ॥ ५ चक्राणि प्र०॥ ६ गुणद्रव्यत्वेन प्र० ॥ ७ त्यादिरिति य० ॥ ८ हेतूव्याख्यानमेवो' वि० ही० ॥ ९°ख्यानमें डे. विना॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org