________________
५३३
प्रशस्तमतिमतखण्डनम् ]
द्वादशारं नयचक्रम् यदपि उक्तं......."तदपि नैव, कुण्डदध्याधाराधेयभावसमवायानामप्येकत्वात् । समवायनिमित्तस्य तत्त्वस्य स्ववृत्तिप्रतिलम्भादेव लोकसिद्धिवद् भेदभावात् कारकशक्तित एव तु कुण्डदनोः संयोगैकत्वेऽप्याधाराधेयनियमः । यथा
च स्वविषयेत्यादि । स्वविषयसर्वगतानि हि तत्त्वानीष्यन्ते तत्समवायस्य सर्वगतैकत्वाभ्यां तान्यधुना सर्वगतानि ३६०-२ प्राप्तानि, ततोऽभ्युपगमविरोधो जायत इति शेषपदार्थाभाव उच्यते, अतो द्रव्यगुणकर्मणामित्यादि प्राक्तन एव ग्रन्थो यावत् कर्मसु कर्मज्ञानमिति । तत्र 'व्यवस्थितलक्षणानामभावात्' इति लक्षणाभावद्वारेण निराकरणम् , इह तु 'व्यवस्थितानामभावात्' इति सह तत्त्वैर्लक्षणैश्च तेषां निराकृतत्वादिति विशेषः आधेय. ज्ञानभेदनिमित्तनियमनिराकरणद्वारेण चेति ।
___ यदपीत्यादि । यदपि परेणोक्तं यथा कुण्डदधिसंयोगे 'दध्येवाधेयम् , कुण्डमेवाधारः' इति नियमस्तथा द्रव्यमेवाधारो गुणकर्माद्येवाधेयम् , द्रव्यगुणकर्माण्येवाधारो द्रव्यत्वगुणत्वकर्मत्वान्येवाधेयानि इति, तदपि 10 नैव, कुण्डदध्याधाराधेयभावसमवायानामप्येकत्वात् , तत्रापि त्वन्मतेनाधारयोः कुण्डदध्नोराधेययोश्च कुण्डत्वदधियोस्तयोस्तत्त्वयोर्द्रव्यत्वादीनां च तत्त्वानां ये समवायास्तेषामप्येकत्वात् समवायिभेदोपचरितभेदानामाञ्जस्येनैकत्वात् पूर्वोक्तविधिना तदवस्थः सङ्करदोषः ।
___ यद्यसङ्करेण नियमेन चार्थः वयमेव स्पष्टतरं ब्रूमः, तद्यथा-समवायनिमित्तस्येत्यादि। समवायस्य यद् निमित्तं तत्त्वं कुण्डदध्नोः कुण्डत्वं दधित्वं च तस्य स्वत एवात्मप्रतिलम्भः, तयोश्च लोकसिद्धिवद् 15
१'यदप्युक्तं 'यथा कुण्डदनोः संयोगैकत्वेऽप्याधाराधेयनियमस्तथा समवायैकत्वेऽपि द्रव्यादीनामाधाराधेयभावनियमः' इति तदपि नैव।' इत्याशयो भाति । दृश्यतां पृ० ५२४ टि०३॥ २ “यद्यप्यपरिच्छिन्नदेशानि सामान्यानि भवन्ति तथाप्युपलक्षणनियमात् कारणसामग्रीनियमाच्च स्वविषयसर्वगतानि, अन्तराले च संयोगसमवायवृत्त्यभावादव्यपदेश्यानीति ।" इति प्रशस्तपादभाष्ये सामान्यनिरूपणे । अस्य व्याख्या - "खविषये सर्वत्र सामान्य समवैति नान्यत्रेति यत् पूर्वमुक्तं तत्र कारणमाहयद्यपीति । यद्यपि सामान्यानि यत्र तत्रोपजायमानेन पिण्डेन सम्बन्धादपरिच्छिन्नदेशानि अनियतदेशानि तथापि उपलक्षणस्य अभिव्यजकस्यावयवसंस्थानविशेषस्य नियमाद् नियतत्वात् पिण्डोत्पादककारणसामग्रीनियमाच स्वविषये सर्वत्र समवयन्ति नान्यत्र । एतदुक्तं भवति - सास्नादिसंस्थानविशेषो गोत्वस्य व्यञ्जकः, केसरादिसंस्थान विशेषोऽश्वत्वस्य, विशिष्टग्रीवादिसंस्थानविशेषश्च घटत्वस्य, प्रतीतिनियमात् । एते च संस्थानविशेषाः न सर्वेषु पिण्डेषु साधारणाः, अपि तु प्रतिनियतेषु भवन्ति । तत्र यद्यपि सर्व सामान्यं सर्वत्रोपजायमानेन स्वविषयेणेव पिण्डान्तरेणापि सम्बर्द्ध क्षमते तथापि यस्याभिव्यञ्जकं यत्र पिण्डे सम्भवति तस्य तत्रैव समवायो नान्यत्र । एवं सामग्रीनियमादपि सामान्यसम्बन्धनियमः । एष हि तन्त्वादीनां कारणानां स्वभावो यदेतैरुत्पाद्यमाने द्रव्ये पटत्वमेव समवैति नान्यत् । एष हि मृत्पिण्डादीनां महिमा यत् तैः क्रियमाणे द्रव्ये घटत्वमेव समवैति नान्यत् । न तावत् सामान्यमन्यतः समागत्य सम्बध्यते निष्क्रियत्वात् , तत्रापि यदि पूर्वं नासीत् तत्रोपजायमानेन पिण्डेनास्य सम्बन्धो न स्यात् , दृश्यते च सर्वत्रोपजायमानेन पिण्डेन सम्बन्धः, तस्मात् सर्वं सर्वत्रास्तीति कस्यचिद् मतं निराकुर्वन्नाह - अन्तराले संयोगसमवायवृत्त्यभावादव्यपदेश्यानीति । अन्तरालमिति आकाशं वा दिग्द्रव्यं वा स्तिमितवायुर्वा मूर्तद्रव्याभावो वा, तेषु गोत्वादिसामान्यानां न संयोगो नापि समवायः । न चासम्बद्धानामेव तेषामवस्थाने प्रमाणमस्ति, अतोऽन्तराले न सामान्यानि व्यपदिश्यन्ते, न सन्तीत्यर्थः । कथं तर्हि तत्रोपजायमानेन पिण्डेन सम्बध्यन्ते ? कारणसामर्थ्यात् । संयोगो ह्यन्यतः समागतस्य भवति तत्रैवावस्थितस्य वा भवति, तस्माद् विलक्षणस्तु समवायो यत्र यत्रैव पिण्डोत्पत्तौ कारणानि व्याप्रियन्ते तत्र तत्रैव कारणानां सामर्थ्यात् पिण्डेऽन्यतोऽनागतस्य तत्रास्थितस्यापि सामान्यस्य भवति वस्तुशक्तेरपर्यनुयोज्यत्वात् ।" इति न्यायकन्दल्याम् ॥ ३ गतत्वाभ्यां प्र०॥ ४ दृश्यतां पृ० ५२६ पं० १॥ ५ वेति पा० ॥ ६ योस्त' इत्यस्य द्विर्भूतत्वे त्वयोस्तत्त्वयों इत्यपि पाठः साधुः ॥ ७°वायभेदो य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org