________________
५३४
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [सप्तम उभयोभयारे त्वमेवात्थ 'न समानत्वात्' [ ] इति तथेहापि समानमुत्तरम्-समवायैकत्वेऽपि कारकशक्तरेव नियमभेदः।............... कस्मिंश्चिदेव।
यत्तूच्यते- व्यङ्गथव्यञ्जक". "न सङ्करप्रसङ्गः [ ] इति, ऐतच्च व्यङ्ग्यव्यञ्जक ''असङ्करः स्यादेवम् । समवायस्य...... । तथा यदि य एव..... गुणकर्मभाव5 विनिवृत्तिरिति सर्व सर्वविकल्पं प्रपश्चनीयं यथावार्थम् ।
३६
भेदः स्ववृत्तिप्रतिलम्भादेव, त्वन्मतेऽप्याकाशकालयोरिव दधिकुण्डयोर्लोकेन प्रतिपन्नो भेदो नार्थान्तरात तथा ततो वयमपि लोकविरुद्धं मा वोचामेति लोकसिद्धिवद् "भेदभावात् कारकशक्तित एव तु प्रतिपद्यते भेदेसिद्धिं संयोगपरिणामकृतं सदप्यैक्यमनादृत्य तयोः संयोगैकत्वेऽप्याधारशक्तिः कुण्डस्य आधेयशक्तिर्दन इति नियममसङ्कीर्णमाचक्ष्महे । अस्यार्थस्य भावनाग्रन्थो गतार्थो यावदाधाराधेयनियम इति । 10 अवश्यं चैतदेवम् , त्वया समवायमपि कल्पयित्वैतदेव प्रतिपत्तव्यम्; स्वंद्वचनप्रामाण्यादेव । यथा त्वमे
वात्थेति संयोगैकत्वेऽपि कारकशक्तित एव कुण्डदध्नोराधाराधेयनियमो भिन्न इत्युत्तरमात्थ । किं तदुत्तरमिति चेत् , उच्यते - न, समानत्वादिति, तथेहापि समानमुत्तरम् - समवायैकत्वेऽपि कारकशक्तेरेव नियमभेदः । तद्वयाख्या गतार्था यावत् कस्मिंश्चिदेवेति ।
यत्तूच्यते-व्यङ्ग्यव्यञ्जकेत्यादि । व्यङ्ग्यव्यञ्जकत्वभेदात् द्रव्यद्रव्यत्वादीनां भेदो घटप्रदीपवदिति 15 परिहारान्तरं गतार्थं यावद् न सङ्करप्रसङ्ग इति वैशेषिकस्य । आचार्यवचनं तु एतच्च व्यङ्गथव्यञ्जकेत्यादि, स्यादेतदेवम् यदि दार्टान्तिकस्य द्रव्यद्रव्यत्वादेर्व्यङ्ग्यव्यञ्जकभावः प्रदीपघटदृष्टान्तवत् पृथक् सिद्धः स्यात्, न तु तदात्मभेदनियमः सिद्धः, सिद्धे हि तदाधाराधेयभेदनियमोऽपि स्यात् , तदर्थोद्भावनं यावदसङ्करः स्यादेवमिति । तस्य हेतोरसिद्धिप्रतिपादनार्थं चाह -समवायस्येत्यादि, उक्तोत्तरमेवैतत् ,
आधाराधेयभेदनियमाभावस्य तुल्यत्वाद् दृष्टान्तसाधर्म्यं न भजत एतदिति प्राग् विस्तरेण व्याख्यातार्थ20 त्वात् । तदेव स्मारयति - तथा यदि य एवेत्यादि यावद् गुणकर्मभावविनिवृत्तिरिति सर्वं सर्वविकल्पं ३६१-२ प्रपञ्चनीयमिति पूर्वोक्तार्थातिदेशः । आ कुतः ? इति चेत् , उच्यते-- अस्माद् ग्रन्थावधेः । यथास्वार्थ
मिति यो यः स्वार्थो यथास्वार्थ द्रव्य-गुण-कर्म-द्रव्यत्व-गुणत्व-कर्मत्वसंयोगाव्यवस्थानचक्रकाण्येव व्याख्येयानि पूर्ववदिति ।
१'समवायैकत्वेऽपि कारकशक्तेरेव आधाराधेयनियम इति न द्रव्यादिषु सर्वत्र द्रव्यत्वादि समवैति, किन्तु कस्मिंश्चिदेव' इत्याशयो भाति ॥ २'यत्तूच्यते-व्यङ्ग्यव्यञ्जकत्वमेदाद् द्रव्यदव्यत्वादीनां भेदो घटप्रदीपवदिति तदाधाराधेयभेदनियमाद् न सङ्करप्रसङ्गः' इत्याशयो भाति । दृश्यतां पृ. ५२४ टि. ३॥ ३ 'एतच्च व्यङ्ग्यव्यञ्जकभावे द्रव्यद्रव्यत्वादीनां पृथक् सिद्धे सति स्यात् , न तु सिद्धः, सिद्धे हि तस्मिंस्तदाधाराधेयभेदनियमोऽपि स्यात् , ततश्च असङ्करः स्यादेवम्' इत्याशयो भाति ॥ ४ 'समवायस्यैकत्वे कुण्डदधिसंयोगवद् आधाराधेयभेदनियमाभावात् तदवस्थ एव सङ्करप्रसङ्गः' इत्याशयो भाति ॥ ५ तथात्ततो य० । अत्र तथाऽन्ततो इत्यपि पाठः स्यात् ॥ ६'वयमपि.."इति नियममसङ्कीर्णमाचक्ष्महे' इत्यन्वयः ॥ ७ भेदाभावात् प्र० ॥ ८ ( प्रतिपद्य भेदसिद्धिं ? ) ॥ ९°सिद्धि य० ॥ १० तद्वच प्र० ॥ ११ वात्रेति प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org