________________
वैशेषिकाभिमतसमवायनिरासः] द्वादशारं नयचक्रम्
५३५ यत् पुनरिदमाशङ्कितं 'समवायैकत्वं पञ्चत्वव्यवहारेण विरुध्यते' [ ] इति, तदेवमेव ।
यत् पुनरिदं प्रत्युच्यते-न, आश्रयविशेषाद् भाववत्.....तथा समवायैकत्वेऽपि...... भविष्यति [ ] इति, इदं निर्मूलमेव व्यङ्गयस्याधारस्य वाऽनियमात् कुतस्तद्वयङ्गयो व्यञ्जको वाधेयोऽर्थः ? कुतो वाश्रयाणां वैचित्र्यम् ? अजलचन्द्रवदेकत्वात् , समवायस्य भावस्य च जलचन्द्रेण साधाभावात् कुतो नानात्वोपचारः ? भावो वा कुतः?
एवमेतदुभयमुभयभाक् । सामान्य भावः प्रकृत्यर्थः, यत् तत् तेन भूयते सा सत्ता, विशेषोऽपि प्रत्ययार्थः सः।
यत् पुनरिदमाशङ्कितमित्यादि । समवायैकत्वं पश्चत्वव्यवहारेण विरुध्यते इति यदाशङ्कितं 10 त्वया तदेवमेव ममापि प्रतिभाति विरुध्यत एवेति ।
यत् पुनरिदं प्रत्युच्यते तस्याशङ्कितस्योत्तरं वैशेषिकेण - न, आश्रयविशेषाद् भाववदित्यादि, द्रव्यादिसद्भावत्रयं दृष्टान्तः, प्रतिदृष्टान्तश्च जलचन्द्रः, तथा समवायैकत्वेऽपीत्यादि दान्तिकं गतार्थं यावद् भविष्यतीति । अस्योत्तरमाहाचार्यः- इदं निर्मूलमेव, व्यङ्गयस्याधारस्य वाऽनियमात् पूर्वोक्तादाश्रय एवासिद्धो व्यञ्जको व्यङ्गयो वा त्वदिष्टः, कुतस्तद्वयङ्गयो व्यञ्जको वाधेयोऽर्थः ? कुतो वाश्रयाणां 15 वैचित्र्यम् , समवायैकत्वे षट्पदार्थनिवृत्तेः सुभावितत्वात् ? अजलचन्द्रवद् व्योमचन्द्रवदेकत्वात् समवायस्य भावस्य च सत्ताख्यस्य॑ जलचन्द्रेण सह साधाभावात् कुतो नानात्वोपचारः, छायामात्रत्वाच्च जलचन्द्रस्याबहुत्वाद्वा? भावो वा कुतः, भावोऽपि द्रव्यादिव्यतिरिक्तो नास्येवैकः तन्मूलत्वा द्वि[वा]दस्य इत्यलमतिविकाशिन्या सङ्कथया ।
एवं स्वभावसत्-सम्बन्धसद्वस्तुभावभेदवादिवेशेषिकमतनिराकरणप्रपञ्चेनैतदायातमिति तदू दर्श- 20 यति- एवमेतदित्यादि 'उभयमुभयभाकू' इत्यस्य नयस्य स्वरूपम् , यत् तत् सामान्यं तदपि विधीयते निय- ३६२-१ म्यते योऽपि विशेषः सोऽपि विधीयते नियम्यते चेति । तद् व्याचष्टेऽक्षरार्थं प्रदर्शयन् प्रकृतिप्रत्ययार्थाभ्याम् - सामान्य भावः प्रकृत्यर्थः, तद् दर्शयति- यत् तत् तेन भूयते सा सत्ता, भू सत्तायाम् [पा० धा० १] इति पाठात् सामान्यम् , तत् किं प्रकृत्यर्थमात्रमेव ? 'न' इत्युच्यते, विशेषोऽपि प्रत्ययार्थः स तस्यैव भवितृत्वाचिप्रत्ययार्थत्वात् स एव प्रकृत्यर्थः प्रत्ययार्थोऽपीत्युक्तः । योऽसौ भवति कर्तृवाचिप्रत्ययार्थः स 25 विशेषः सामान्यमपि भवति सत्ता भावः भवनात्मकत्वात् भवनं सामान्यमन्तरेण तस्याकर्तृत्वादभवितृत्वात स एव प्रत्ययार्थः प्रकृत्यर्थानतिक्रमेण वृत्त इति ।
१ 'यथा भावस्यैकत्वेऽपि जलचन्द्रवदाश्रयविशेषाद् नानात्वोपचारः तथा समवायस्यैकत्वेऽपि व्यङ्ग्यव्यजकभावमेदादाधाराधेयनियमादाश्रयविशेषात् पञ्चत्वव्यवहारो भविष्यति' इत्याशयो भाति ॥ २°श्च । जलपा. ही० । 'श्चाजल' भा० ॥ ३ धानियमात् भा० । धायनियमात् य० ॥ ४ स्याजल° य० । ( °स्याजल° ? )॥ ५°स्य । बहु पा० ही० । °स्य बहु° डे• रं० वि०॥ ६°त्वाद्विदस्य प्र० । अत्र त्वाद्वादस्य इत्यपि पाठः स्यात् ॥ ७ कासिन्या प्र० । दृश्यतां पृ० १०७ टि.६॥ ८त्वावाचि प्र०॥ ९यार्थोऽपि त्यक्तः य० । ( यार्थोऽपि युक्तः ?)॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org