________________
५३६
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [सप्तम उभयोभयारे सामान्य प्रवृत्तिः विधिर्भावः। विशेषोऽपि..... नियमोऽभावः। एतदुभयं पूर्ववदेकत्वमनापद्यमानं सामान्यं विशेषश्च भवतः। प्रवृत्तौ निवृत्तिः....'येन... यथा... 'येन हि....। यदि [स्य... "खपुष्पवत्।
एवं द्रव्यक्षेत्र..............सदसत्त्वम् । प्रतिस्खं घटादि मृदादि कारणमपेक्षते 5 निर्विशेषत्वे. 'इति खावयवभेदेषु सदसत्त्वेन वृत्तिः। तद्भावाभावात्मको घट इति
स्यान्मतम् - विधिविधि यमतवदेकत्वापत्तिः सामान्यविशेषयोरिष्टा, सैषा त्वदुक्तन्यायेनैवं त्वेकत्वापत्तिरपीति 'सा मा भूत्' इति सर्वविकल्पभावकत्वव्युदासेन विशेषलक्षणमनयोः पर्यायादिभिर्विभक्तं वक्तुकाम आह - सामान्यं प्रवृत्तिरित्यादि यावद् विधिर्भाव इति तथा विशेषोऽपीयोदि यावद्
नियमोऽभाव इति द्वावेतौ [भावा]भावौ पर्यायभेदात् । एतदुभयं पूर्ववद् विधिविध्यरविकल्पपुरुषा10 दिवादवत् ‘एकमेवेदम्' इत्येवंविधं भावमनापद्यमानं सामान्यमपि सामान्यं विशेषश्च भवतः विशेषोऽपि विशेषः सामान्यं च भवत इति ।
तद् दर्शयति -प्रवृत्तौ निवृत्तिरित्यादि, उभयमन्योन्याविनाभावि भावो वस्त्वित्यर्थः । भावाभावरूपं भवनं सद् वस्तु, तस्य सतो भावः सत्ता, यत् सता भूयते सततनियमेनेति प्रकृतिप्रत्ययार्थयोरुभयो. ३६२-२ रुभयं नियमो विधिश्च । तावेव दर्शयति 'येन' इति प्रत्ययार्थं 'यथा' इति प्रकृत्यर्थं च, येन हीत्यादि 15 का क्रियायां नियतेन नियुतायां भवनमाह । यदि [अ]स्येत्यादि अन्यथानिष्टापादनं यावत्
खपुष्पवदिति भवननियमेन आत्मलाभो भवत उक्तः, तेतश्चावरणेन भवितृनियमेन भवनात्मलाभ इत्येतदुभयमुभयत्र विधिनियमश्चेति सामान्येनोक्तम् । विशेष्यापि वक्ष्यति ।
___ एवं द्रव्यक्षेत्रेत्यादि यावत् सैदसत्त्वमिति । द्रव्यतो घटो भवन्नात्मानुवृत्त्या पटादिव्यावृत्त्या घटान्तरव्यावृत्त्या च भावाभावात्मभ्यां भवति । क्षेत्रतो गृहे घटो न बहिर्न "मंनय (?) इति स्वक्षेत्रे भवन 20 परक्षेत्रे क्षेत्रान्तरे चाभवन् भवति । कालतो वर्तमाने काले भवन्नतीतानागतयोः कालान्तरयोरभवन् शिवकस्तूपकादिभिः पूर्वैरुत्तरैश्च कपालादिभिरभवन् शिवकावस्थायामेव वा पिण्डेस्तूपकाभ्यां पूर्वोत्तराभ्यामभवन् शिवकत्वेन भवन् 'भवति' इत्युच्यते । अथवा भावतः शिवकादिभिराकारैर्धर्वर्तमानयु(रयु?)गपद्भाविभिर्युगपद्भाविभिश्च रूपरसादिभिर्भवन् भावान्तरैरुपयोगादिभिश्चाभवन् भवतीति सदसत्त्वम् , एवं सर्वभावानां भावा[-ऽभावा]त्मकत्वम् ।
१'सामान्यं प्रवृत्तिव्यमन्वयो धर्मी विधिर्भावः । विशेषोऽपि निवृत्तिः पर्यायो व्यतिरेको धर्मोऽन्यत्वं नियमोऽभावः ।' इत्याशयो भाति, दृश्यतां पृ० ३७१-१॥ २ ‘एवं द्रव्यक्षेत्रकालभावैः घटपटघटान्तरस्वक्षेत्रक्षेत्रान्तरस्वकालकालान्तरभावभावान्तरभावाभावाभ्यां सदसत्त्वम् ।' इत्याशयो भाति ॥ ३ 'कण्ठः खात्मना भवति न कपालाद्यात्मना कपालानि स्वात्मना भवन्ति न कण्ठाद्यात्मना इति खावयवभेदेषु सदसत्त्वेन वृत्तिः।' इत्याशयो भाति ॥ ४ नियमत प्र० । विधिविधिनयमतस्वरूपं द्वितीयारे द्रष्टव्यम् ॥ ५°त्यादिर्यावद प्र०॥ ६र्थयोरुभयोरुभयो नियमो पा० वि० भा० । र्थयोरुभयो नियमो डे० २० । अत्र 'र्थयोरुभयोर्नियमो इत्यपि पाठः स्यात् ॥ ७नियं भवन भा० ॥ ८( यदि चेत्यादि ? )॥ ९ ( ततश्चाकरणेन ? )॥ १० ससत्त्व प्र०॥ ११ मंतय इति वि० । संनय इति २० । अत्र मण्डपे इति पाठः स्यात् , मध्ये इति वा भवेत् ? ॥ १२ पिण्डकस्तूपकाभ्यां भा० ॥ १३ °मानैर्युगपद्भाविभिर्युगपद्भाविभिश्च प्र० । अत्र मानैर्युगपद्भाविभिश्च इत्यपि पाठः स्यात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org