________________
भयोभयनयस्वरूपनिरूपणम्] द्वादशार नयचक्रम्
५३७ तदभावे न भवति भाषाभावभाव एव च भवति । तथा घटपटादिद्रव्यक्षेत्रकालभावभावाभावसत्ताया घटसामस्त्येऽपि न कश्चिद् विशेषः, वस्तुत्वात्, असामस्त्यवत् । यथैव..........''गुणावृत्त्यनावृत्तिभेदेषु। विवक्षया वैष विशेष उभयोरपि तत्त्वात्।
तथा घटस्तावदस्त्येव क्रियागुणव्यपदेशवत्त्वात् पटरथवत्, सर्वसर्वसमवाया- 5 सत्त्वाद् योग्यस्यैव योग्येषु समवायात्, यथा रूपे घटः, तथा रसादिष्वपि भावनीयं
अथवा प्रतिपत्तिववस्तुप्रवृत्तेः वस्तुनि वस्तुनि वृत्तिः (?)। प्रतिस्वं घटादि मृदादि कारणमपेक्षते, 'आदि'ग्रहणात् पटादि तन्त्वाद्यपेक्षते, निर्विशेषत्व इति कारणान्तरानपेक्षत्वात् स्वकारणापेक्षत्वाच्च भावाभावत्वेनाविशेषः, कण्ठः खेनात्मना भवति कपालाद्यात्मना न भवति, कपालानि स्वात्मना ३६३-१ भवन्ति न कण्ठाद्यात्मनेति भावाभावाद्यात्मना परस्परतश्चासत्सु सत्सु च भेदं भेदं प्रति वृत्तत्वात् इति 10 स्वावयवभेदेषु सदसत्त्वेन वृत्तिः । तस्यार्थस्य भावना -तद्भावाभावात्मको घट इति तदभावे न भवति भावाभावाभावे न भवति भावाभावभाव एव च भवति तद्भाव एव भवतीत्यर्थः ।। __एतस्यैवार्थस्य भावनार्थ साधनमाह -तथा घटपटादिद्रव्यक्षेत्रकालभावभावाभावसत्ताया घटसामस्त्येऽपि न कश्चिद् विशेष इति प्रतिज्ञा । घंटपटघटान्तरेत्यादिदण्डकोक्तार्थचातुर्विध्यस्य सदसत्त्वमसामस्त्येन भावितम् , सामस्येऽपि तथेति साध्यार्थः । वस्तुत्वादिति हेतुः । असामस्त्यवदिति 15 दृष्टान्तः । यथैवेत्यादि चातुर्विध्येन दृष्टान्तवर्णना गतार्था यावद् गुणावृत्त्यनावृत्तिभेदेष्विति । द्विगुणत्रिगुणकृष्णशुक्लत्वादिरावृत्तिः, शुक्लः कृष्ण इत्यनावृत्तिः । तत्रैकगुणसत्त्वं द्विगुणासत्त्वम् , द्विगुणसत्त्वमेकगुणासत्त्वम् , शुक्लसत्त्वं कृष्णासत्त्वम् , कृष्णसत्त्वं शुक्लासत्त्वमित्यादि ।
___ भावाभावात्मकत्वाविशेषे सामस्त्यासामस्त्यविशेषः क इति चेत् , उच्यते -विवक्षया 'वैष विशेष उभयोरपि सामत्यासामस्ययोः । कस्मात् ? तत्त्वात् , तद्भावस्तत्त्वं भावाभावत्वम् , तस्मात् तत्त्वात 20 भावाभावत्वाद् विवक्षाविशेषादेवैष विशेषः 'समस्तो घटः, असमस्तः कण्ठकपालादिः' इत्यादि प्रागुक्तं पातुरात्म्यम्, सकलादेशवशाद् विकलादेशवशाच्च प्रतिपादनोपायत्वात् एवं भावाभावात्मकत्वं सर्वस्य सकळादेशेन भावितम् , विकलादेशेन प्रत्येकं भावयिष्यामः।
तत्र भावात्मकत्वं तावत् - तथा घटस्तावदस्त्येव क्रियागुणव्यपदेशवत्वात् , उदकाद्याहरणं ३६३-२ क्रिया, गुणो रूपादि, व्यपदेशो लिङ्गं हेतुरपदेशः 'लिङ्गम्' इत्यादिशब्दो वा । पटरथवदिति भावात्मकत्वे 25 दृष्टान्तः खपुष्पवैलक्षण्येन । बैधयेण सर्वसर्वसमवायासत्त्वादिति भावनाहेतुः, न हि सर्वं सर्वत्र समवैति तन्तुषु घटः कपालेषु वा पटः, तस्मात् सर्वसर्वसमवायासत्त्वाद् योग्यस्यैव योग्येषु समवायात्
१ प्रतिपत्तिववस्तुप्रवृत्तेः वस्तुनिवस्तुनिवृत्तिः प्र० । अशुद्धोऽयं खण्डितो वा पाठ इति भाति । ( प्रतिवस्तु प्रवृत्तेः वस्तुनि वस्तुनि वृत्तिः ? प्रतिपत्तिवद् वस्तुप्रवृत्तेः वस्तुनिवृत्तिः ?)॥ २°णांतपेक्ष भा०॥ ३°णानपेक्ष'प्र०॥ ४ (वृत्तत्वात् प्रतिखावयव ?)॥ ५भावाभावाभाव एव य० । भावाभाव एव भा० ॥ ६ दृश्यतां पृ० ५३६ टि. २॥ ७ असामान्यवदिति प्र०॥ ८शुक्ल कृष्ण प्र०॥ ९ (चैष ?)॥१० तस्मात्तत्तत्वात् प्र.॥ ११त्वाधुदका प्र०॥ १२ "हेतुरपदेशो लिङ्गं निमित्तं प्रमाणं कारणमित्यनान्तरम्।" बै० स०९।२।४ । श्यतां पू० ४८९ टि०६॥
नय०६८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org