________________
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [ सप्तम उभयोभयारे प्रत्येकं सत्त्वात्। अथ पुनरेवं न स्यात् ततोऽसावसन्नेवापद्येत सिकताखिव तैलम् । न च तथा स्थितौ घटो न भवति, रूपरसयोघेटभावात्। ___ नंनु घट"..... 'पृथिव्यपि मृदादिः, इतरथा निर्मूलत्वात्। तथा च एकभवनात्मकत्वात् घटघटस्वात्मवत् तद्विशेष एव विशेषो नाभावः पृथिवीसामान्ये 5 सत्येव ऊर्द्धत्वविस्तृतत्वादिः।
'अस्त्येव' इति वर्तते, यथा रूपे घटः गुणसमुदायवाददर्शनेन, 'रूपं वा' इति गुणमात्रवादे 'तदाधारो वा' इत्यवयविवादे 'यथा रूपे घटोऽत्येव' इत्यादि तथा रसादिष्वपि भावनीयमेकैकस्मिन् वृत्तत्वात् ।
अथ पुनरेवं न स्यात् पटरथादिसाधर्म्यण खपुष्पवैलक्षण्येन वैकैकस्मिस्तिलेष्विव तैलं ततोऽसावसन्नेवापद्येत, किमिव ? सिकतास्विव अविद्यमानं यथा सिकतासु प्रत्येकं समुदायेऽपि तैलं 10 नात्येव तथा घटो रूपादावेकैकस्मिन्नसत्त्वादसन्नापद्येत, अनिष्टं चैतत् । एवं सामस्येन घंटाद्यस्तित्व रूपादीनां प्रत्येकं सत्त्वात् , इतरथा रूपवद् रसोऽपि रूपं स्यात् स्वरूपासत्त्वात् , न च रूपवद् रसोऽपि रूपं भवति रूपं वा रसवद् रसो भवति दृष्टविरुद्धत्वात् । यस्माद् रूपमेव रूपं रस एव रसो भवति नेतरभावमापद्यते तस्माद्रूपादयः सन्ति ।
एवं तर्हि रूपादिमात्रत्वाद् न घट' इति स्यौदाशङ्का, सा मा भूत् , न च तथा स्थितौ घटो न 15 भवति । यथा परस्परठयावृत्तात्मत्वे सत्यपि रूपादयो भवन्तीति स्थितिः, तथा स्थितौ एवं स्थिते तथा
घटोऽपि भवति, न न भवति, रूपरसयोर्घटभावात् तयोरितरेतराभूतयोरेव घटत्वात् तयोराधारभूतयोर्वा घटत्वात् । तदुपनयति -असामस्त्येन वा भावाभावात्मक एव घट इति ।
ननु घटेत्यादि वैशेषिको विशेष भावात्मकमेव वाञ्छन् व्यावृत्त्यात्मकं विशेषं निराकुर्वन्नाह । यथा रूपादिष्वाधारेषु घटो भवति रूपादय एव वा सिद्धान्तान्तरदर्शनेन घटो न निर्मूलस्तथा पृथिव्यपि 20 मृदादिः मृदश्म-सिकता-लोष्ट-वज्र-वृक्ष-गुल्म-लता-ऽवंतान-वीरुदादिषु तदात्मिका, तस्या एव ते विशेषा रूपादय इव घटस्य नाभावो विशेषः, इतरथा निर्मूलत्वादभावविशेषत्वे घटस्य रूपादीनां चासत्त्वमापन्नं खपुष्पवत् , न च तदिष्टम् । एवं न्यायाद् रूपादयो मृदादयश्च घटस्य पृथिव्याश्च विशेषो भाव इत्युक्तम् । तथा चेत्यादि भावविशेषत्वभावनाग्रन्थो यावद् विस्तृतत्वादिः । एकभवनात्मकत्वादिति हेतुः "एकमेव भवनमेकस्यैव वा भवनमात्माऽस्य' इति विग्रहः, यदेकभवनात्मकं तद् नाभावविशेषः । दृष्टान्तः25 घटघटस्वात्मवत्, यथा घट एव घटस्वात्मा, नान्यत् खपुष्पाद्यसत् । स्यान्मतम् - अविशेषस्तर्हि प्राप्त
१'ननु घटबिशेषा रूपादयो यथा भावविशेषः तथा पृथिव्यपि मृदादिः इतरथा निर्मूलत्वात् ।' इत्याशयो भाति ॥ २ दृश्यतां पृ० ५३९ पं० १७ ॥ ३ 'तथा च रूपादयो मृदादयश्च घटस्य पृथिव्याश्च भावविशेष एव एकभवनात्मकत्वाद् घटघटस्वात्मवत् । न चैवमविशेषः, तद्विशेष एव पृथिवीसामान्ये सत्येव उर्द्धस्वविस्तृतत्वादिः' एतादृशमपि मूलमत्र स्यात् ।। ४ घटादिस्तित्वं भा० ॥ ५ स्यादाकाशं सा मा प्र० ॥ ६ स्थितिवेवस्थिते य० ॥ ७ वा भावात्मक पव भा०॥ ८ यथा स्यादिष्टावारेषु प्र०॥ ९“अवतन्वन्तीत्यवताना नाम विटपाः केतकीबीजपूरादयः ।" इति प्रशस्तपादभाष्यन्यायकन्दल्यां पृथिवीनिरूपणे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org