________________
५३९
भावाभावान्यतरैकान्तवादनिरासः] द्वादशारं नयच क्रम्
नैकभवनात्मकत्वं पृथिवीभूतेरपि, तस्या अपि भावाभावात्मकत्वात्। ननु पृथिव्यपि उदकादि न भवति ।
_न, उक्तोपन्यासवद् 'द्रव्यम्' इति भवनात्। ननु द्रव्यमपि 'गुणः' इति न भवति।
न, 'सत्' इति भवनात्। यदि 'सत्' इत्येव भवति केन विशेषहेतुना 'सदेव सर्वम्' इति भवति, न 'द्रव्यमेव' इति ? यतस्तु.....'यथा तन्तुषु पटः।।
यद्येवम्, तर्हि "भवति' इत्युक्तेऽपि न भवति' 'नार्थः' इत्येवोक्तं भवति
15
एकभवनात्मकत्वाद् मृदादिरूपादीनां घटघटस्वात्मवत् , अनिष्टं चैतदिति । अत्रोच्यते- न चैवमविशेषः, घटस्वात्मन एव देशकालरूपादिविशेषवदात्मन्येव भावविशेषदर्शनात् । अत आह-तद्विशेष एव विशेषो नाभावः । कोऽसौ पृथिव्यादिविशेष इति चेत् , उच्यते-पृथिवीसामान्ये सत्येव ऊद्धत्वविस्तृतत्वादि-10 विशेषो नाभावः, तथा घटोऽपि मृदेकभवनात्मकाकारविशेषो भाव एव न पटाद्यभाव इति । ३६४-२
अत्राचार्य आह - त्वदभिमतं नैकभवनात्मकत्वं पृथिवीभूतेरपि, कुतो घटघटस्वात्मनः ? कस्मात तस्या अपि पृथिवीभूतेः भूमिभवनस्य भावाभावात्मकत्वात् । तन्निदर्शयति- नन्वित्यादि, पृथिवीभवनमुदकाम्न्याद्यभवनम् , एतदेवास्य मूलमभावविशेषभवनम् , तन्मूलत्वात् किमित्यस्यासत्त्वापत्तिः ? एवमभावविशेषरहितभावविशेषसिद्धौ 'मां प्रति न किञ्चिद् निदर्शनमस्तीत्यभिप्रायः । .. पर आह-न, उक्तोपन्यासवद् 'द्रव्यम्' इति भवनात , पृथिवी द्रव्यभवनाविनाभावेनैव भवति, पृथिव्युदकादि पृथिव्युदकादिषु वा द्रव्यम् , ईतरथा निर्मूलत्वादित्यादिः स एव ग्रन्थो यथायोगं वाच्यः । अत्रोत्तरम् - ननु द्रव्यमपि 'गुणः' इति न भवतीत्यभावाविनाभाविभवनवचनम् । - न, 'सत्' इति भवनादिति सत्त्वभवनव्याप्त्या भावस्यैव विशेष इति पूर्ववत् । अभाववाद्याह - यदि सदित्यादि, अनिष्टापादनमुखेनासद्वादसमर्थनमिदम् । यदि 'सत्' इत्येव भवति सत्त्वाविशेषाद् 20 द्रव्यगुणकर्मणामव्यतिरेकात् पर्यायमात्रत्वे केन विशेषहेतुना 'सदेव सर्वम्' इति भवति, न 'द्रव्यमेव' इति ? दृष्टं चेदम् , द्रव्यमेव न भवति, गुणकर्मणोरपि सद्भावात् । गुणकर्माभावाद् द्रव्यं सदिति भवति, गुणकर्मणी च तद्भावात् सती भवतः । न च द्रव्यादिव्यतिरेकेण सद् नाम किञ्चिदस्ति' इत्युक्तत्वाद् दृष्टविरुद्धमुच्यते त्वयेति । अत्र वयं ब्रूमः - यतस्त्वित्यादि चेटकमर्कटिकया अभावाविनाभाविभावप्रतिपादनं यथा तन्तुषु पट इति गतार्थम् ।
एवं तावद् भावैकान्तपक्षव्यावर्तनद्वारेणाभावसहितो भाव उक्तः, अतः परमभावैकान्तपक्षव्यावर्तन-३६५-१ द्वारेण भावसहित एवाभाव इत्येतत् प्रतिपादयिष्यते -यद्येवमित्यादि अभावैकान्तवादिनं भावैकान्तवादी
mmmmwwwwwm
25
१एवभवना प्र०॥ २°न्येन भाव प्र.॥ ३°त्मककाकार' प्र० । (त्मक आकार ?) ॥ ४ भावात्मकत्वात् भा० ॥ ५मा प्र०॥ ६ दृश्यतां पृ० ५३८ पं० ३॥ ७°द्वासमर्थ भा०॥ ८ दृष्टांतं चेदं य० ॥ ९चटमर्क भा० ॥ १०णा प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org