________________
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [सप्तम उभयोभयारे परितो भवनाभावात् खपुष्पवत्। ननु परितः पटादावभवन्नेव कटः सिध्यति । ननु 'परितो'वचनेन खात्मनोऽप्यभवनमुक्तं भवति । तथा...'असत्त्वं पक्षधर्मोऽनर्थत्वैकान्ते, पटः कटादिन भवति नापि रूपादिः।
ननु परितोऽप्यभवनमेव साधयति भावमपि। कटोऽपि कट इति भवन्नेव 5 घटपटौ न भवति।
न, 'गुणः' इत्यभवनात्। ननु गुणोऽपि 'गुणः' इति भवन्नेव कटपटौ न भवति। न, "द्रव्यम्' इत्यभवनात्। यदि न भवत्येव...'घट इति भवति। नन्वेवम्......''परस्परावबद्धनौद्वयवत्। न, व्यवस्थितोपकारिखरूपत्वात् ,
उपालभते, यदि 'घटो भवति' इत्युक्तेऽप्यभाव एवोक्तो भवति 'पटो न भवति' इति तर्हि 'भवति' 10 इत्युक्तेऽपि 'न भवति' 'नार्थः' इत्येवोक्तं भवतीति प्राप्तम् । साधनमप्यत्र परितो भवनाभावात्
खपुष्पवदिति । स्यान्मतम् - ननु परितः पटादावभवन्नेव कटः सिध्यति, तस्मादनैकान्तिक इति चेत् , न, विपक्षाभावात् , ननु 'परितो'वचनेनेत्यादि, परितोवचनं सर्वत्रार्थम् , तेन स्वात्मनोऽप्यभवनमुक्तं भवति, तस्माद् नानैकान्तिकता । तथेत्यादिरस्य न्यायस्य प्राप्तिप्रदर्शनार्थो दण्डको यावदसत्त्वं पक्षधर्मोऽनयंत्वैकान्त इति प्राग्व्याख्यातोऽर्थः कण्ठः कपाले नास्तीत्यादि, तेस्य निदर्शनम् पटः 15 कटादिनं भवति नापि रूपादिरिति, अनिष्टं चैतत् ।
अत्र भावाभाववादी उत्तरमाह -ननु परितोऽप्यभवनमेव त्वदुक्तं साधयति अस्मदिष्टं भावमपि, तद्यथा-कटोऽपि कट इति भवन्नेव घटपटौ न भवति, घटत्वपटत्वाद्यभावः कटस्य कटात्मभवनाविनाभावीति भावभवनाद् न मुच्यते । इतर आह्व-भवन् न, गुण इत्यभवनात् , अत्रापि
गुणाभावानुविद्ध एव कटभावः गुणत्वेनाभवनात् । ननु गुणोऽपीत्यादि गुण इति विधिना भवन्नेव कट 20 इति न भवति विशेषेण नियमेन व्यावृत्त्येति । ३६५-२ इतर आह - न, 'द्रव्यम्' इत्यभवनात् , अत्रापि द्रव्याभावानुविद्धस्त्वदभिमतो गुणभाव इति ।
अत्रोच्यते – यदि न भवत्येवेत्यादि झुटकमर्कटिकया द्रव्यगुणयोर्भावाभावत्वमापाद्य कटादेव्यविशेषस्यापादयति गतप्रत्यागतन्यायेन, ततो घटस्यापि यावद् घट इति भवतीति । एवमेकान्तभावाभाववोदिनोः परस्परकृतचोद्यद्वयपरिहारः । एवमेव भावाभाववादिनं प्रत्यपि तद्विपर्ययेणेतरभावनया एकान्तवादिनां 25 विध्यादिनयानां मतेषु परिहारः कार्यः । अथवा तच्चोद्यस्यात्रावकाश एव नास्ति, तेनापि उभयोभयनयेन सर्वैकान्तवादिनां सुनिवर्तितत्वात् सकलविकलादेशाभ्यां भावाभावत्वसिद्धेरिति ।
नन्वेवमित्यादि इदमप्यन्यच्चोयं विकलादेशपक्षे उभयोभयवादिनं प्रत्यनिष्टापादनं साधनेन गतार्थ
namammmmmmmmmm
१'नन्वेवं पृथिव्यादीनां परस्परावबद्धत्वेऽव्यवस्थितस्वरूपत्वादनवस्था स्यात् परस्परावबद्धनौद्वयवत्' इत्याशयो भाति । २९. ही विनान्यत्र इति न तर्हि पा० डे० वि० ।इते न तर्हि भा०॥ ३°दसत्वां प्र०॥ ४'ख्यातोर्थः य० । ( दण्डको......प्राग्व्याख्यातार्थः ॥ ५ तस्या प्र०॥ ६भाववादी भा०॥ ७भवन् गुण : (तम, गुण !)॥ ८चकटमर्क भा०॥९°वादिनो प्र०॥ १० तश्चोद्यस्य प्र.॥ ११°वर्तित्वात् प्र.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org