________________
परस्परावबद्धभावाभावत्वसाधनम् ] द्वादशारं नयचक्रम्
५४१
धृत्यादिवृत्तजगदवस्थावत् । पृथिव्यादीनामनित्यत्वेऽपि अर्थभवनाविच्छेदाद् व्यवस्थितोपकारित्वं सिद्धमनवस्थानाभावश्च खत्वपरत्वाभ्यां तथा भावाभावयोः ।
यदि तु भावाभावयोर्न परस्परावबद्धत्वं ततः पटस्याभावे घटभावाभावः भाव एव अभावतुल्यत्वात्, पटवत् । यदि वा "
ननु तस्य साक्षादेवाभवनमुभयतः । नन्वत एवेदम् द्रव्यादित्वेन च । 5 यदि त्वसौ पटः पटत्वद्रव्यत्वाभ्यां न भवेत्, न पटो भवेत्, पटत्वद्रव्यत्वाभ्याम
I
यावत् परस्परावेबद्धनौद्वयवदिति पूर्वपक्ष: । अत्रोच्यते - तद् न, व्यवस्थितोपकारि स्वरूपत्वात् धृत्यादिवृत्तजगदवस्थावदिति साधनेनानवस्थादोषपरिहारः । नित्यत्वे पृथिव्यादीनां व्यवस्थितत्वं परस्परोपकारित्वं च धृतिसङ्ग्रहपक्तिव्यूहावकाशदान क्रियाभिः सिद्धम्, ततोऽनवस्था नैवास्तीत्यत्र का चिन्ता ? किन्तु अनित्यत्वेऽप्यर्थभवनाविच्छेदात् सततभवनस्याविच्छेदाद् भावे व्यवस्थितोपकारित्वस्य धृत्या 10 भूमिरितरेषामात्मनश्चोपकुरुते जलं सङ्ग्रहेण अग्निः पक्त्या वायुर्व्यूहेन सर्वेषामवकाशदानादाकाशैमित्यवस्थितोपकारिस्वरूपत्वं सिद्धमनवस्थानाभावश्च, अक्षरार्थो भाष्ये गमितः, स्वैत्वपरत्वाभ्यामिति स्वरूपसिद्धौ पररूपसिद्धौ च तेषां परस्परावबद्धत्वे सत्यप्यनवस्था नास्ति, तथा भावाभावयोरिति, योऽसौ भवति घटः स पटो न भवति, यदसौ पैंटो भवति तद् घटो न भवति, घटो भवन्नेव पटो न भवति, पटो भवन्नेव घो न भवति, तथा भवति न भवति चेत्यपि ज्ञेयम्, परस्परावबद्धव्यवस्थितोपकारिस्वरूपत्वाद् नानवस्थेति । 15
यदि त्वत्यादि परस्पराव बद्धभावाभावत्वाभावे द्वयोरप्येकान्तपक्षयोर्दोषाभिधानम् । पदस्याभावे द्वैटभावाभावस्त्वदिष्टविघात्यापद्यते, कोऽसौ ? भाव एव, कस्मात् ? अभावतुल्यत्वात् पटवदित्यभावैकान्तपक्षे दोषः । भावैकान्तपक्षेऽपि यदि वेत्यादि घटपटादिसङ्कीर्णता दोषः ।
एवमन्तरितद्रव्यत्वसत्त्वादिगुणत्वादिसामान्यविशेषाभ्यां भावाभावात्मकता, नान्तरिताभ्यामेव, किं तर्हि ? ननु तस्य साक्षादेवाभवनमुभयतः, सामान्यतो द्रव्यत्वेन स्वेन विशेषतोऽन्यद्रव्यत्वेन पटगतेन 20 गुणस्याभवनात्, तथा तद्विपर्ययेण पटस्य, पटघटगतयोश्च द्रव्यत्वयोर्भेदात् तद्भेदवत् तद्वयतिरिक्तद्रव्यत्वस्याभावात् । नन्वत एवेदमित्यादिना भावयति यावद् द्रव्यादित्वेन चेति । घटो गुणत्वेन पटद्रव्यादित्वेन च साक्षान्न भवति घटद्रव्यत्वेन भवति, पटः पटद्रव्यत्वेन साक्षाद् भवति गुणत्वेन घटद्रव्यत्वेन च साक्षान्न भवतीति भावाभावात्मकत्वमेवानयोः ।
यदि त्वावित्यादि अनिष्टापादनसाधनमभ्युपगमे, यदि पटः पटत्वद्रव्यत्वाभ्यां न भवेत्, न पटो 25
१ "वद्वनोद्वय प्र० । दृश्यतां पृ० ३४ टि० ५॥ व्यवस्थि' इत्यपि पाठः स्यात् ॥ ५ स्वत्वरत्वाभ्या प्र० ॥ ८ अत्र नयचक्रवृत्तौ 'कोऽसौ भाव एव' इति पाठस्य 'कोऽसौ भाव मूलेऽपि 'पटस्याभावे घटभावाभावः, अभावतुल्यत्वात् पटवत्।' १० घटस्य भवनात् प्र० ॥
२'नावस्था प्र० ॥ ३ वृत्त्या प्र० ॥ ४ अत्र मिति ६ पटो न भवति प्र० ॥ ७ घटभावस्व भा० ॥ एव ? न कश्चिदपि भावः' इत्यभिप्रायश्चद् विवक्षितस्तदा इति पाठोऽवधेयः ॥ ९ यदि भा० प्रतौ नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org