________________
५४२
न्यायागमानुसारिणीवृत्त्यलङ्कतम् सप्तम उभयोभयारे भवनात्, घटवद् गुणवद्वा। यतस्तुतत एवेतराभ्यां भवति नीलोत्पलादिवत् । अतस्त्वन्यथा..... खपुष्पवत्। ... कालतोऽपि च.........। न यथा लोकवादः- पैलालमग्निर्दहतीति । यदि तद् दह्यते एव,............. 'भस्मीकरणानुपपत्तेः पूर्ववत् । देशः पलालस्य दह्यते तथापित...... देशस्यापि भस्मीकरणानुपपत्तेः । अथाकाशव्यतिरेक.........."तदपि न..........। तथा घटो न भिद्यते कचित्।
भवेत् पटत्वद्रव्यत्वाभ्यामभवनात् घटवद् गुणवद्वा, घटो गुणो वा नैव न भवेत् तत एव तद्वत् । एवं घटगुणयोरपि साधनाभ्यामनिष्टमापाद्यम् । एतस्यार्थस्य भावना - यतस्त्वित्यादि यावत् तत एवेतराभ्यां
भवतीति । अवश्यं चैतदेवम् , अन्वयव्यतिरेकाभ्यामर्थस्यावधारणे प्रयोगस्य साफल्यात् । तद्यथा नीलो10त्पलादिवत्, सिद्धे सति आरम्भो नियमार्थः, यथा रक्तनीलत्वयोः सिद्धयोरन्यतराभावेनान्यतरभावेन
चोत्पलं नियम्यते 'रक्तमेव, नीलमेव वा' इति तथा घटः पट इति वेति । तदर्थभावना भाष्येऽन्यतराभावाभावेऽन्यतरभावाभावे च सतोऽप्यभावप्रसङ्गापादनद्वारेण लोकप्रसिद्ध्यनुपातेन कृता । एतस्य न्यायस्यानभ्युपगमे द्वयोरप्यभावः, तदर्शयति-अतस्त्वन्यथेत्यादि अनिष्टापादनसाधनं गतार्थ यावत् खपुष्पवदिति । एवं द्रव्यतो भावाभावात्मकता व्याख्याता । 15 कालतोऽपि चेत्यादि, विनाशोत्पादयोरेककालत्वात् पिण्डशिवकादीनां पिण्डो न भूतः शिवको
भूत इत्येकमेव भूतमभूतं च कालभेदात् । अतीतानागताभ्यां वृत्तिभ्यामसंसृष्टतत्त्वा शिवकादिता वर्तमानैककाला । न यथा लोकवाद इति अविज्ञातार्थतत्त्वो लोको मिथ्या ब्रूत इति वैधोदाहरणं पैलालमग्निदहतीति, एतत् स्ववचनानुमानप्रत्यक्षविरुद्धं वचनमिति । तद् भावयति -यदि तद् दह्यत एवेत्यादि यावद् भस्मीकरणानुपपत्तेः पूर्ववत् पलालकालवत् , कालस्य भिन्नत्वाभ्युपगमात् । परः परिहारं 20 मन्येत -देशः पलालस्य दह्यते स च पलालमेवेति । तस्योत्तरम्-तथापीत्यादि गतार्थ यावद्
देशस्यापि भस्मीकरणानुपपत्तेरिति । अथाकाशव्यतिरेकेल्या[दि], स्यान्मतम् - द्रव्यार्थिकनयमते80, ऽभेदात् पलालादिमूर्तद्रव्येष्वेव सम्भवादाकाशाद्यमूर्तिद्रव्यव्यतिरेकेण पलालमेव दह्यते नाकाशादीति ।
तदपि नेत्यादि, अभूततद्भावेऽर्थे चिप्रत्ययः, तदन्तेन भस्मीकरणशब्देनान्यो दाहो वर्तते अन्यच्च पलालमिति भिन्नार्थत्वादपरिहारः। अथाप्येकत्वं पलालस्येष्यते द्रव्यार्थाभेदात् ततस्तस्य दाह्यता नास्ति 25 भस्मत्वाभूतेरिति ।
तथा घट इत्यादि कालत एव भावाभावात्मकत्वविपर्ययेऽन्यदुदाहरणं पूर्ववद् गतार्थ [स प्रसङ्गम् । भिदेः कपालविषयत्वाद् घटस्य ऊर्द्धताद्याकारत्वात् कालभेदादनुपपत्तिः । प्रस्तुतघटोदाह
नैव भवेत् य० ॥ २ अन्यस्त्वन्य भा० ॥ ३ दृश्यतां पृ० ५४३ टि. ४ ॥ ४मनोंतदेशः भा० । मनोंतर्देशः पा० डे० । मानांतर्देशः रं० । मानोंतर्देशः वि० ॥ ५ मतोभेदात् प्र० ॥ ६ विप्र भा० । "कृभ्वस्तियोगे सम्पद्यकर्तरि चिः [पा० ५।४।५०] 'अभूततद्भावे' इति वक्तव्यम् । विकारात्मतां प्राप्नुवयां प्रकृतौ वर्तमानाद् विकारशब्दात् खार्थे चिर्वा स्यात् करोत्यादिभिर्योगे।" पा० सिद्धान्तकौ ॥ ७र्थप्रसंगम् २० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org