________________
लोकवादे दोषप्रदर्शनम् ] द्वादशारं नयचक्रम्
क्षेत्रतः शून्यं न प्रविश्यते.........। भौवतोऽसंयतो न प्रव्रजति । एवमेव भव्यो न सिध्यति।
रणे भावयितुमुपादानमस्येति । अथवा पूर्व घटपटावुदाहृतौ, इह दर्शनविपर्ययेऽप्युदाहरणद्वयम् , तथा च क्षेत्रतो भावतश्च द्वे द्वे वक्ष्यति, भावनादृढीकरणार्थत्वात् क्रियान्तरगतत्वभावनातो न्यायप्राप्तिदर्शनात् । क्षेत्रेतः शून्यमित्यादि प्रवेशगमनस्थानानुपपत्तिर्गतार्था, 'तिष्ठतिगच्छतिविपर्ययेण प्रासङ्गिकमुदाहरणम् ।।
भावतोऽसंयत इत्यादि, अनादिकालसम्बद्धदर्शनचारित्रमोहनीयोदयजाया अविरतेः पृथग्भावः प्रव्रज्या प्रकर्षव्रजनं विरतिः, सा कथमसंयते घटते ? एवमेवेति एकस्य भावाभावात्मकत्वाधिकारानुवृत्त्या भावतः 'सिद्ध-भव्यकालभेदादयुक्तमित्युदाहरति ।
mammawwwmawwwmawwwwwwwwwwwwwwwwwwwwwwwwww
wwwwwwwwwwwww
१°णार्थत्वा क्रिया भा० । णार्थस्वा क्रिया य० । अत्र णार्थम्वा क्रिया इत्यपि पाठः सम्भवेत् , तथा च 'भावनादृढीकरणार्थ वा, क्रिया” इत्यपि भवेत् ॥ २ गतभाव भा० ॥ ३ तिष्ठतिग भा० ॥ ४ “नारकाद्यायु:प्रथमसंवेदनकाले एव नारकादिव्यपदेशो भवति ऋजुसूत्रनयदर्शनेन । यत उक्तं नयविद्भिः ऋजुसूत्रस्वरूपनिरूपण कुर्वद्भिः- 'पलालं न दहत्यग्निर्भिद्यते न घटः क्वचित् । न शून्यान्निर्गमोऽस्तीह न च शून्यं प्रविश्यते ॥ १ ॥ नारकव्यतिरिक्तश्च नरके नोपपद्यते । नरकान्नारकश्चास्य न कश्चिद् विप्रमुच्यते ॥ २ ॥' इत्यादि ।" इति अभयदेवसूरिकृतायां
तीसूत्रवृत्तौ ४।१०।१७४ । “ततो नारकाद्यायुर्वेदनप्रथमसमये एव नारकादिव्यपदेशं लभते । एतच्च ऋजुसूत्रनयदर्शनम् । तथा च नयविद्भिः ऋजुसूत्रनयनिरूपणं कुर्वद्भिरिदमुक्तम् –पलालं न दहत्यनिर्भिद्यते न घटः क्वचित् । नाशून्ये (न शून्याद् ?) निष्क्रमोऽस्तीह न च शून्यं प्रविश्यते ॥१॥ नारकव्यतिरिक्तश्च नरके नोपपद्यते । नरकान्नारकश्चास्य न कश्चिद् विप्रमुच्यते ॥२॥ इत्यादि ।" इति मलयगिरिकृतायां प्रज्ञापनासूत्रवृत्तौ १७३। "ऋजु वर्तमानसमयं वस्तु स्वरूपावस्थितत्वात् , तदेव सूत्रयति परिच्छिनत्ति नातीतानागतम् , तस्यासत्त्वेन कुटिलत्वात् । तस्य वचनं पदं वाक्यं वा, तस्य विच्छेदोऽन्तः सीमेति यावत् । .......... । तस्य च पूर्वापरपर्यायैर्विविक्ते एकपर्याय एव प्ररूपयतो वचनं विच्छिद्यते एकपर्यायस्य परपर्यायासंस्पर्शात् । उक्तं च तन्मतमर्थं प्ररूपयद्भिः- 'पलालं न दहत्यग्निर्दह्यते न गिरिः क्वचित् । नासंयतः प्रव्रजति भव्यजीवो न सिध्यति ॥' पलालपर्यायस्य भग्निसद्भावपर्यायादत्यन्तभिन्नत्वात् यः यः पलालो नासौ दह्यते यश्च भस्मभावमनुभवति नासौ पलालपर्याय इति।” इति अभयदेवसूरिविरचितायां सम्मतिवृत्तौ १।५। “तत्र ऋजुसूत्रः कुटिलातीतानागतपरिहारेण वर्तमानक्षणावच्छिन्नवस्तुसत्तामात्रम् ऋजु सूत्रयति अन्यतो व्यवच्छिनत्ति सूत्रपातवत् । न ह्यतीतमनागतं वास्ति । यदि स्यातामतीतानागते न तर्हि मृतपुत्रिका युवतिः पुत्रकमुद्दिश्य रुद्यात् न च पुत्रार्थिनी योषित् औपयाजिकादि विशिष्टदेवतासन्निधौ विदध्यात् । तद्धि वस्तु वर्तमानक्षणावस्थाय्येव, म जातुचित् ततः परं सत्तामनुभवति, नापि अतीतकालासादितात्मलाभं किञ्चित् तत्रान्वेति, स्वकारणकलापसामग्रीसन्निधावुत्पद्य खरसभङ्गुरतामवलम्बन्ते तत्क्षणमात्रावलम्बिनः सर्वसंस्काराः। एवं च सति य एते कर्तृभूतद्रव्यशब्दसन्निधौ क्रियाशब्दाः प्रयुज्यन्ते यथा देवदत्तः पचति पठति गच्छतीति कर्मभूतद्रव्यशब्दसनिधी वा यथा घटो भिद्यते घटं वा भिनत्तीत्येवमादयो म यथार्थाः । कथम् ? यतो नामशब्देन अविकृतरूपस्य द्रव्यस्याभिधानात क्रियाशब्देन च विकारस्य प्रतिपाद्यत्वात् , न च विकाराविकारयोरैकाधिकरण्यमस्ति विरुद्धत्वात् । अर्थप्रत्यायनाय हि प्रयुक्तः शब्दो बिरुद्धमर्थ प्रतिपादयन् नैव सम्यग्ज्ञानमाधत्ते, अयथार्थत्वात् , मृगतृष्णायां सलिलशब्दवदिति । उक्तार्थसंवादी च श्लोको गीतः पुराविदा - पलालं न दहत्य मि कचित् । नासंयतः प्रव्रजति भव्योऽसिद्धो न सिध्यति ॥ पलालं दह्यत इति यद् व्यवहारस्य वाक्यं तद् विरुध्यते । अत्र
wwwwwwwwwwwwwwwwwwwwwm
wwwwwwwwwwwwwwwwwwwnwwwm
AnmM
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org