________________
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [सप्तम उभयोभयारे 'कुम्भं करोति' इति आदावप्याह । न तथा घटते। यदि स कुम्भ एव मृदवस्थायाम्, न क्रियते, भूतत्वात्, अन्यमृद्वत् । अथाभूतः, न क्रियते सः, अभूतत्वात्, खपुष्पवत् । कथमसन् कुम्भ उच्यते वा ?
अथवैकमेवोदाहरणं द्रव्यादिचतुर्विधत्वं योजयति इत्याह - 'कुम्भं करोति' इत्यादावयाह, 5 मृन्मर्दनकालेऽप्याह 'कुम्भं करोमि' इति कुम्भकारः, अपिशब्दात् करणकाले निर्वृत्त्युत्तरकाले च कृतः कुम्भ इति । न तथा घटते, 'यथा लोको वदति' इति वर्तते । यदि स कुम्भ एवानिवृत्तोऽपि मृदवस्थायाम् , न क्रियते, भूतत्वात् , यद् भूतं तन्न क्रियते, यथा अन्या मृत् । अथाभूतः क्रियत इति मन्यसे, म क्रियते सः, अभूतत्वात् , खपुष्पवत् । कथमसन् कुम्भ उच्यते वा ?
www
वाक्ये वाक्यार्थप्रतिपत्तये पदार्थप्रविभागकाले पलालशब्दो विशिष्टाकारद्रव्यवचनो नामशब्दः, तद्धि द्रव्यं यावत् तस्मिन्नेवाकारे वर्तते तावदेव पलालशब्दवाच्यम् । अन्यदा तु पलालभावेन तस्याभाव एव, तद्भावेनाभावात्, पटवत् । तस्मात् स्थिररूपमव्यापारमुदासीनमविकृतं पलालशब्देन वस्तु प्रतिपादितम् , कथं तदेव 'दह्यते' इत्यनेन शब्देनोच्येत, क्रियाशब्दस्य विकाराभिधायित्वात् ? न हि स एवार्थो विकारश्चाविकारश्च भवितुमुत्सहते । यदि हि तत् पलालं न तर्हि तदेव दह्यते, अविपरिणतत्वात् , प्रागवस्थावत् । विपरिणममानं च पलालमेव तन्न भवति, विपरिणामशब्दस्य भावान्तरवाचित्वात् । तस्माद् यावत् तत् पलालं तावन्न दाते यदा दह्यते तदा पलालं न भवतीत्यतो नैतावेकस्यार्थस्य प्रत्यायनाय सम्यग्ज्ञानोपजनकारणम् , शब्दान्तरापस्यसहिष्णुत्वात प्रमत्तगीतावेताविति । एवं घटाधुदाहरणभावना कार्या।" इति सिद्धसेनगणिविरचितायां तत्त्वार्थभाष्यव्याख्यायाम् ५॥३१॥ "पलालं न दहत्यग्निर्भिद्यते न घटः क्वचित् । नासंयतः प्रव्रजति भव्योऽसिद्धो न सिध्यति ॥ ३१॥” इति यशोविजयोपाध्यायविरचिते नयोपदेशे। “सूत्रपातवजुत्वादृजुसूत्रः । ७।... समयमात्रमस्य निर्दिदिक्षितम् । 'कषायो भैषज्यम्' इत्यत्र च सञ्जातरसः कषायो भैषज्यम् , न प्राथमिककषायोऽल्पोऽनभिव्यक्तरसत्वादस्य विषयः । पच्यमानः पक्वः, पक्वस्तु स्यात् पच्यमानः स्यादुपरतपाक इति ।....."एवं क्रियमाणकृत-भुज्यमानभुक्त-बध्यमानबद्ध-सिध्यत्सिद्धादयो योज्याः। तथा प्रतिष्ठन्तेऽस्मिन्निति प्रस्थः, यदेव मिमीते, अतीतानागतधान्यमानासम्भवात् । कुम्भकाराभावः, शिवकादिपर्यायकरणे तदभिधानाभावात्, कुम्भपर्यायसमये च स्वावयवेभ्य एव निवृत्तेः । स्थितप्रश्ने च 'कुतोऽद्यागच्छसि' इति ? 'न कुतश्चित्' इत्ययं मन्यते तत्कालक्रियापरिणामाभावात् ।......अतः पलालादिदाहाभावः प्रतिविशिष्टकालपरिग्रहात् । अस्य हि नयस्याविभागो वर्तमानसमयो विषयः अग्निसम्बन्धनदीपनज्वलनदहनानि असङ्ख्येयसमयान्तरालानि यतोऽस्य दहनाभावः। किञ्च, यस्मिन् समये दाहः न तस्मिन् पलालम् भस्मताभिनिवृत्तेः, यस्मिंश्च पलालं न तस्मिन् दाह इति । यत् पलालं तद् दहतीति चेत्, न, सावशेषात् । समुदायाभिधायिनां शब्दानामवयवेषु वृत्तिदर्शनाददोष इति चेत्, न, तदवस्थत्वात् , एकदेशदाहाभावस्योक्तत्वात् । निरवशेषदाहासम्भबादिति चेत्, न, वचनविरोधात् तदवस्थत्वाच्च । वचनविरोधस्तावत् यदि निरवशेषस्य पलालस्य दाहस्यासम्भव इत्येकदेशहाहात पलालदाहो नादाहः ननु भवद्वचनस्य निरवशेषपरपक्षदूषकत्वाभावात् परपक्षकदेशस्य दूषकत्वम् , अतः एकदेशदूषकत्वात् कलमपीदं दृषकमेवेत्यस्य साधकत्वसामर्थ्याभाव इति । तदवस्थत्वमपि 'एकसमये दाहाभावः' इत्युक्तत्वात् । अवयवानेकत्वे यद्यवयवदाहात् सर्वत्र दाहोऽवयवान्तरादाहात् ननु सर्वदाहाभावः । अथ दाहः सर्वत्र, कस्मान्नादाहः ? अतो न दाहः । एवं पानभोजनादिव्यवहाराभावः । न शुकः कृष्णीभवति, उभयोर्भिन्नकालावस्थत्वात् प्रत्युत्पन्न विषये निवृत्तपर्यायानभिसम्बन्धात् । सर्वसंव्यवहारलोप इति चेत्, न, विषयमात्रप्रदर्शनात् । पूर्वनयवक्तव्यात् संव्यवहारसिद्धिर्भवति ।" इति तत्त्वार्थराजवार्तिके १॥३३॥
१(चतुर्विधत्वे )॥२ 'करोमि' इत्यपि पाठः स्यादत्रेति चिन्त्यम् ॥ ३ करोति य० ॥ ४ दृश्यतां पृ० ५४२५० ३॥
wwwww
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org