________________
लोकवादे क्रियाऽभावप्रदर्शनम् ] द्वादशारं नयचक्रम्
अथोच्येत-सत्यम् , प्रागभूतः, इदानीं क्रियते, क्रियमाणश्च भवतीति । अत्रापि यद्यभूतो न तर्हि कुम्भः स क्रियते, भूतत्वेऽपि कृतकरणवैयर्थ्यान्न क्रियते। अथाभूतोऽपि कुम्भ उच्यते, पृथिव्यपि ते कुम्भ इति प्राप्ता । ततश्च क्रियाऽभावः। न च कस्याश्चिदप्यवस्थायाम्............"क्रिया।
कथं तर्हि सोऽक्रियमाणः कुम्भो जातः ? को वा ब्रवीति 'जातः' इति, 5 द्रव्यादितो जन्मविनाशसमत्वात् ? स न जायते इति किं शक्यो वक्तुम् ? ओम्,
अथोच्येत पक्षद्वयानाश्रयणेन परिहारसमर्थ मत्वा पक्षान्तरं संश्रित्य सत्यं प्रागभूत इदानीं क्रियते, क्रियमाणश्च भवतीति । अत्रापि भूताभूतत्वविकल्पद्वयानतिवृत्तिः, यद्यभूतो न तर्हि कुम्भः सः, पटादिवत् कुम्भत्वेनाभूतत्वाद् न क्रियते नापि 'कुम्भः' इति वक्तव्यः । भूतत्वेऽपि पैटादिवञ्च सान्निध्ये कुँतकरणवैयर्थ्याद् न क्रियते । अथाभूतोऽपि पिण्डादिः स्वपक्षे रागाद् लोकानुवृत्त्या वा कुम्भ उच्यते 10 पृथिव्यपि ते कुम्भ इति प्राप्ता कुम्भत्वेनाभूतत्वात् त्वदिष्टक्रियमाणकुम्भवत् । ततश्च क्रियाऽभावः, पृथिव्यर्थक्रियावैयर्थ्यवत् कुम्भार्थक्रियाया अभावः। तद् भावयति-न च कस्याश्चिदप्यवस्थायामित्यादि यावत् क्रियेति । द्रव्यतः सर्वप्रदेशात्मकस्य परमाणुमात्रेऽवरुद्धत्वान्न क्रिया, द्रव्यान्तरे त्वभावादभावः । क्षेत्रतो बुधमध्योर्ध्वादिभागावष्टब्धक्षेत्रवादित्वात् कतमो घटः क्रियते ? कालतः प्रतिक्षणमन्यान्यप्रदेशस्पन्दावरोधात् , भावतः सर्वसंस्थानरूपादिसमाहारात्मकत्वे घटस्य भावं भावं प्रति पृथक्त्वात् का क्रिया ? 15 .. यस्मात् क्रियमाणमेव तु क्रियते मृदाहरणादीति चतुर्धाप्येतदुदाहरणम् ।
___ अपर आह - कथं तर्हि सोऽक्रियमाणः कुम्भो जातः, क्रियाया अभावाद क्रियमाणोऽक्रिय-३६.१ माणत्वात् कुम्भो जायते खपुष्पवदिति प्राप्तम् , अनिष्टं चैतत् , लोकप्रसिद्ध्युपरोधित्वादिति । अत्रोच्यतेको वा ब्रवीति 'जातः' इति ? अहं तु लोकमेवायुक्तवादिनं मन्ये, द्रव्यादितो जन्मविनाशसमत्वात्, य एव जातः स एव विनष्टो यत्रैवं तत्रैव यदैव तदैव यथैव तथैवेति भावाभावयोर्भावो भवनम् , स एव 20 भावाभावभावो वस्तु सैदसदात्मकभवनम् , वस्तुत्वात् पूर्वाभाव एव भावोऽस्य पिण्डादेः, पूर्वभावस्याभावो विनाशः, स एव उत्तरोत्तरो भावो जन्म इति जन्मविशयोर्लक्षणम् , तयोस्तुल्यत्वाद् द्रव्यादितः । स मौवाभावात्मकोऽर्थो न जायत इति किं शक्यो वक्तुम् । इति । ओमित्युच्यते, स 'न जायते' इति
१श्रयेण परि य०॥ २°वृत्ते प्र० ॥ ३ घटा य० ॥ ४ कृते य० ॥ ५°त्वात् क्रिया प्र० ॥ ६ व्यदित्वात् यः । (त्रव्यापित्वात् ?) ॥ ७°मन्यान्यान्यप्रदेशस्यंदा भा० । 'मन्योन्यप्रदेशास्वंदा' य० ॥ ८°चादिक्रियमाणोक्रियमाणत्वात् कुंभो य० । 'घात्क्रियमाणाक्रियमाणत्वात् कुभो भा० । (बाद क्रियमाणत्वात् ?) । अत्र 'वाद क्रियमाणत्वात् कुतो इति वादक्रियमाणोऽक्रियमाणत्वात् कुतो इत्यपि वा पाठोऽपि स्यात् ॥ ९ द्रव्यतो भा० ॥ १० °व च य० ॥११ भवनं त एव प्र० ॥ १२ सदासदात्मक य० । सदात्मक भा० ॥ १३ पूर्वभाषो विनाशः भा० ॥ १४ °नाशोलक्षण तयोस्तुत्वाद्रव्यादितःप्र० ॥ १५भावात्मको भा० ॥
नय० ६९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org