________________
५४६
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [सप्तम उभयोभयारे विनश्यत्त्वात्, पूर्ववत् । 'न विनश्यति' इत्यपि शक्यं वक्तुं जायमानत्वादुत्तरवत् ।
एतदुदाहरणं निवर्त्यकर्मविषयासु विकार्यकर्मविषयासु च क्रियासु, सर्वाखपि तावेषैव वार्ता । प्राप्यकर्मक्रियास्वपि च कासुचित्।
एवं तावदुत्पन्नशब्दानां निर्विषयता। द्रव्यशब्देष्वपि भावाभावात्मकत्वात 5 सर्वभावानां कुतः तत्त्वोपनिपाति वचनम् ? भ्रूक्षेपादिवत्तु स्वाभिप्रायसूचनं कृतसङ्केतानां क्रियते।
शक्यो वक्तुमिति । कस्मात् ? विनश्यत्त्वात् , घटावस्था हि जन्म, सा विनश्यदवस्थैव उक्तन्यायात् , पूर्ववदिति त्वंदिष्टानन्तराघटावस्थावत् । 'न विनश्यति' इत्यपि शक्यं वक्तुं जायमानत्वादुत्तरवत
घटावस्थावदिति । 10 एतदुदाहरणं निवर्त्यघटादिकर्मविषयासु करणपचनादिक्रियासु, विकार्यपलालादिविषयाषु च दहनादिक्रियासु, सर्वास्वपि तास्वेषैव वार्ता - नास्ति काचित् क्रियेति । 'ग्रामं गच्छति' इत्यादिप्राप्यकर्मिकासु कथमिति चेत्, प्राप्यकर्मक्रियास्वपि च कासुचिदिति गच्छतिव्रजत्यादिषु भावितम् , कासुचित् तु
हिमवदादित्यश्रवणदर्शनादिषु यद्यपि नैषा वार्ता, शब्दघटश्रवणदर्शनादिष्वेषैव वार्ता । किञ्च, कृत-दग्ध३६८-२ गतादिशब्दैश्च 'क्त'प्रत्ययान्तैर्याः क्रिया उच्यन्ते तासां निष्ठितत्वाद् भूतकालविहितत्वाच्च क्तस्य 'किश्चिन्निष्ठितं 15 किश्चिदनिष्ठितं मृत्पलालादि कर्म' इति कृताकृतत्वानुपपत्तेः सुतरां प्रयोगाभाव इति सुष्टुच्यते- यथा लोको वदति न तथा घटत इति ।।
. एवं तावदुत्पन्नशब्दानां क्रियावाचिनामाख्यातानां नाम्नां पाचकादीनां शुक्लादिगुणशब्दानां च निर्विषयता निरर्थकतेत्यर्थः । द्रव्यशब्देष्वपीत्यादि यावद् वचनमिति सर्वभावा भावाभावात्मका इत्युक्तं विस्तरतः, तद्वाच्यभिमतानां शब्दानामुक्तन्यायेन तदसंस्पर्शात् कुतः तत्त्वं भाषाभावात्मकं वस्तूपनिपतितुं 20 वचनस्य 'शीलं धर्मः साधुकारिता वा कस्यचित् ? इति ।
एवं तर्हि शब्दार्थव्यवहारहानिरिति चेत् , 'न' इत्युच्यते, अस्ति शब्दार्थसंव्यवहारः संज्ञासंज्ञि
१दत्विष्ट पा० डे० विना। रत्विष्ट पा० डे०॥ २ निर्वादित्रिविधर्मस्वरूपं वाक्यपदीये [ श्लो० ३१७/४५-५४ 1 सिद्धहेमबृहद्वत्तौ [२॥२॥३-च विस्तरेण विलोकनीयम । 'निर्वर्त्य वा विकार्य वा प्राप्यं वा यत् क्रियाफलम् । तद् दृष्टादृष्टसंस्कार कर्म कर्तुर्यदीप्सितम् ॥' इति त्रिविधं कर्म ॥ ३°प्रजत्यादिषु भा० । दृश्यतां पृ० १२६ टि. १५, अत्र गच्छतिव्रजत्यादिषु इत्यपि पाठः सम्भवेत् ॥ ४ कालाध्यनोरत्यन्तसंयोगे [पा० २।३।५],'': एवं मन्यते-यत्र कश्चित् क्रियाकृतो विशेष उपजायते तन्याय्यं कर्मेति । न चेह कश्चित् क्रियाकृतो विशेष उपजायते । नैवं शक्यम् । इहापि न स्यात् - आदित्यं पश्यति, हिमवन्तं शृणोति. ग्रामं गच्छति ।....."कर्मण्यण [ पा० ३।२।१] 'कर्मणि निवत्यमानावाक्रयमाण' इति वक्तव्यम् । इह मा भूत्-आदित्यं पश्यति. हिमवन्तं शृणोति, ग्राम गच्छतीति ।" इति पातअलमहाभाष्ये ॥ ५"क्तक्तवतू निष्ठा [पा० १।१।२६] एतौ निष्ठासंज्ञौ स्तः । निष्ठा [पा० ३।२।१०२] भूतार्थवृत्तेर्धातोर्निष्टा स्यात्' इति । पा०सिद्धान्तकौमुद्याम् ॥ ६ दृश्यतां पृ० ५४३ टि० ४॥ ७ दृश्यतां पृ० ५४२ पं० ३, पृ. ५४४ पं० ६॥ ८ "आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु ॥"-पा० ३।२।१३४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org