________________
'अन्यापोहः शब्दार्थः' इत्यभिधानम्] द्वादशारं नयचक्रम्
५४७ अत्र चान्यापोहः शब्दार्थः । आह हि- शब्दान्तरार्थापोहं हि स्वार्थे कुर्वती श्रुतिः 'अभिधत्ते' इत्युच्यते [ ]। सम्बन्धसन्निवेशात्मकः । भ्रूक्षेपादिवत्तु अक्षिनिकोचैः पाणिविहारैर्धक्षेपादिभिश्चाङ्गविकारैः स्वाभिप्रायसूचनं कृतसङ्केतानां क्रियते, अभिप्रेतार्थपर्यायमात्रत्वात् तासां क्रियाणाम् , तथा शब्दस्यापि अभिधेयाभिमतार्थपर्यायमात्रपरमार्थत्वात् तदर्थप्रतिपत्त्युपायः शब्दो भ्रक्षेपादिवत् । संज्ञा संज्ञैव संज्ञापनात् । न वाचकः शब्दः, । पुरुषाणां कृतसङ्केतानां प्रतिपत्त्युपायः, अकृतसङ्केतानां तु शब्दगडुमात्रसम्प्रत्ययनिमित्तत्वात् । यथोक्तम् -
"विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः।।
तेषामत्यन्तसम्बन्धो नार्थाञ् शब्दाः स्पृशन्त्यपि ॥[ ] इति । एवं वस्तुनो भावाभावात्मकस्यानिर्देश्यत्वात् परमार्थस्यावाचकः, संवृतिसतस्तु व्यवहारस्य वाचक इवोपलक्षणभूतः शब्दः।
__ अत्र चेत्यादि । नयमतेन वस्तुस्वरूपं शब्दार्थसम्बन्धं चावधार्य शब्दार्थोऽधुनावधार्यते - अत्र च विधिनियमविधिनियमभङ्गेऽन्यापोहः शब्दार्थः । यस्मादाह - शब्दान्तरार्थेत्यादि, शब्दादन्ये शब्दाः शब्दान्तराणि, तेषामर्थानपोहते घटशब्दः पटादिशब्दानां स्वतोऽन्येषां व्यवहारानुपातात् । 'स्वाथै कुर्वती श्रुतिः' इति वचनेन भावाभावात्मकमर्थं दर्शयति । 'अभिधत्ते' इत्युच्यत इति, न परमार्थतोऽभिधत्तेऽर्थात्मनोऽनभिलाप्यत्वात् संज्ञापरमार्थत्वात् 'अभिधत्ते' इवाभाति लक्षयन सङ्केतवशादर्थमिति एष पदार्थः । 15
10 ३६९-२
१भृत्क्षेप य० । दृश्यतां पृ. २४२ पं० १०, पृ० २६७ पं० ११ । “उद्द्योतकरस्तु प्रमाणयति-देवदत्तस्य रूपरसगन्धस्पर्शप्रत्यया एकानेकनिमित्ताः, मयेति प्रत्ययेन प्रतिसन्धीयमानत्वात् , कृतसमयानामेकस्मिन् नर्तकीम्रक्षेपे युगपदनेकपुरुषाणां प्रत्ययवत् । अस्यायमर्थः - यथा किल 'नर्तकीभ्रभङ्गानन्तरमस्माभिर्वस्त्राणि प्रक्षेप्तव्यानि' इत्येवं कृतसमयानां बहूनां नानाकर्तृकाः नानाभूताः प्रत्ययाः निमित्तस्य भ्रूभङ्गस्यैकत्वाद् 'मया दृष्टो मया दृष्टः' इति प्रतिसन्धीयन्ते तथेहापि नानाविषयाः प्रत्यया निमित्तस्यैकत्वात् प्रतिसन्धास्यन्ते । यच तदेकं निमित्तं स आत्मेति ।" इति तत्त्वसङ्ग्रहपञ्जिकायाम् , श्लो. १८०-१८१॥ २ “अन्तरेण खल्वपि शब्दप्रयोग बहवोऽर्था गम्यन्तेऽक्षिनिकोचैः पाणिविहारैश्च ।” इति पातञ्जलमहाभाष्ये २।१।१॥ ३ दृश्यतां पृ. २४३ पं० १०-१४ ॥ ४(मात्रमप्रत्ययनिमित्तत्वात् ???) । दृश्यतां पृ० २४३ पं० १० ॥ ५ दृश्यतां पृ० २४३ पं० ९, पृ० ४९८-१। “यदधिकृत्याह 'विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः' इति । [व्याख्या - ] यदधिकृत्याहाचार्यः-विकल्पयोनयः विकल्पकारणाः शब्दाः विकल्पाः शब्दयोनय इति। [पृ० १।३३४ ] ...... यथोक्तम् - ‘विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः' इति । [व्याख्या -] यथोक्तं भदन्तदिन्नन- विकल्पयोनयः शब्दा विकल्पाः शब्दविकल्पाः शब्दयोनय इत्यादि ।” [पृ० १।३३७ ] इति हरिभद्रसूरिविरचितायां खोपशव्याख्यासहितायाम् अनेकान्तजयपताकायाम् । बौद्धाचार्यदिङ्गागस्यैव ‘भदन्तदिन्नः' इति नाम इति ध्येयम् , दृश्यतां टि० ९॥ ६ नार्थी शब्दा य० । नार्थी शब्दा भा० । दृश्यतां पृ. ४९८- १॥ ७ भूतशब्दः प्र०॥ ८ बौद्धमते 'अपोहः शब्दार्थः, प्रतिभा च वाक्यार्थः' इति विज्ञायते, तथाहि-"अपोहः पदार्थत्वेन कल्पितः । स वाक्यादपोद्धृत्य कल्पितस्य पदस्यार्थ इष्टः । वाक्यार्थस्तु प्रतिभालक्षण एव । यथोक्तम् - अपोद्धारे पदस्यायं वाक्यादर्थो विवेचितः । वाक्यार्थः प्रतिभाख्योऽयं तेनादावुपजन्यते ॥' इति ।" इति तत्त्वसङ्ग्रहपञ्जिकायाम्, पृ. २९४ ॥ ९ बौद्धाचार्यदिङ्गागस्य वचनमिदम् । 'दिनः' 'दिनकः' 'दत्तकः' इति च दिङ्गागस्य नामान्तराण्यपि सन्ति । संस्कृतभाषायां दत्त इति दत्तक इति च रूपम् , तयोरेव प्राकृतभाषायां यथाक्रम दिन इति दिनक इति च रूपं भवति । तत्र प्राचीननग्रन्थेषु [ नयवृत्ती
wwwww
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org