________________
wwwmumtam
mwwwwAM
WW.
www
न्यायागमानुसारिणीवृत्त्यलकृतम् [सप्तम उभयोभयारे प्रतिभा च वाक्यार्थः।
वाक्यार्थस्तर्हि कः ? उच्यते-प्रतिभा च वाक्यार्थः । शब्दाभ्यासवासनाजनिताऽर्थेषु प्रतिभा वाक्येभ्यो जायते तिरश्चां मनुष्याणां च यथाभ्यासं स्वजातिनियता स्वप्रत्ययानुकारेण शूर-कातरादीनामिव पृ० ६३ पं० ५, पृ० ९६ पं० ६, पृ० ५४५ टि. १, अनेकान्तजयपताकाव्याख्यायां पृ० ११३३७ इत्यादिस्थानेषु ] दिन्न इति, सिद्धसेनगणिविरचितायां तत्त्वार्थभाष्यव्याख्यायां [५।२४ ] दत्तक इति, अन्यत्र च बहुषु स्थानेषु दिङ्गाग इति त्रिधापि नामनिर्देशो दृश्यते । प्राचीनेषु चीनदेशीयग्रन्थेषु च दिन्न इति दिन्नक इत्यपि च दिङ्गागस्य नाम उपलभ्यते, दृश्यतां On Yuan-chwang's Travels in India by Thomas-watters, Part II. p. 211-2121 "तेन आचार्यदिनागस्योपरि यद् उड्योतकरेणोक्तम् - 'यदि शब्दस्यापोहोऽभिधेयोऽर्थस्तदाभिधेयार्थव्यतिरेकेणास्य खार्थो वक्तव्यः, अथ स एवास्य स्वार्थस्तथापि व्याहतमेतत् 'अन्यशब्दार्थापोहं हि खार्थे कुर्वती श्रुतिरभिधत्ते इत्युच्यते'
1 इति । अस्य हि वाक्यस्यायमर्थस्तदानीं भवति 'अभिदधाना अभिधत्ते' इति' [ न्या. वा० २।२।६७] । तदेतद् [वाक्यार्थापरिज्ञानादुक्तम् ।" इति तत्त्वसङ्ग्रहपञ्जिकायाम, श्लो० १०१६। सन्मति वृ० पृ. २०४ । “न चान्यापोहमात्रं शब्दार्थः, विधिनिरपेक्षस्य व्यतिरेकस्याप्रसिद्धरन्वयस्य च व्यतिरेकशून्यस्यानुपलब्धेः परस्परापेक्षाभ्यामन्वयव्यतिरेकाभ्यां सर्वत्रार्थाधिगतेः 'व्यतिरेकस्यैव प्राधान्यम्' इत्ययुक्तम् । तथा चाह दत्तकभिक्षुरेव- अर्थान्तरापोहं हि स्वार्थे कुर्वती श्रुतिः 'अभिधत्ते' इत्युच्यते। 'हि'शब्दो यस्मादर्थे, यथा वृक्षशब्दोऽवृक्षशब्दनिवृत्तिं खार्थे कुर्वन् स्वार्थ वृक्षलक्षणं प्रत्याययतीत्युच्यते। एवं च निवृत्तिविशिष्टं वस्तु शब्दार्थः, न निवृत्तिमात्रम् , अलक्षणीयमेव च स्यान्निवृत्तिमात्रम् , अवस्तुत्वात् , खरविषाणकुण्ठतीक्ष्णतादिवर्णनवत् । अत्र च न प्राग विधिना घटं गृहीत्वा पश्चादन्यापोहं करोति, नाप्यन्यापोहं कृत्वा पश्चाद् घटं कालभेदेन गृह्णाति । क्रमेण हि ग्रहणे हसिष्ठत्वात् क्षणिकत्वाच्च सर्वभावानां धनेर्ज्ञानस्य च न युक्तं व्यापारद्वयानुष्ठानम् । सन्तानाच्चेत्, तदयुक्तमवस्तुत्वात् । एवं तर्हि घटग्रहणमन्यापोहश्च युगपदुभयं सिद्धम् , यथा सवितुरुदये सन्तमसविदलनं खरूपप्रकाशनं च खभावात् । एवं सति उभयमभिधेयं सामान्यं विशेषश्चत्यवशेनापि प्रतिपत्तव्यमन्यापोहशब्दार्थवादिना। अन्वयव्यतिरेकयोस्तुल्यकक्षत्वाद् विधेय( उभय ?)मपि प्रधानमेवास्तु, न हि द्वयोरर्थयोर्धवखदिरवद् युगपदुपात्तयोरेकस्य गुणभावकल्पना श्रेयसी । ननु चान्वयस्य प्राधान्येऽभ्युपेयमाने प्रयत्नानन्तरीयकत्वमव्याप्तसपक्षं सद् नैवानित्यत्वं गमयेत् । केन चेदमुक्तं 'व्याप्तसपक्षं गमयति, अव्याप्तसपक्षं न गमयति' इति ? एतावत्तु उच्यते - अन्वयनिरपेक्षो न गमयति व्यतिरेकः, नापि व्यतिरेकनिरपेक्षोऽन्वयः प्रतिपादकोऽर्थस्य, परस्परापेक्षतायां च शिबिकोद्वाहकादिवत् सर्वत्र प्राधान्यं क्वचिद् विवक्षावशाद्वा अन्यतरस्य गुणप्रधानकल्पनेति, यथाह द्वादशशतिकायाम् - यदप्युक्तम् 'अप्रसक्तस्य किमर्थं प्रतिषेधः' ? इति, नैवैतत् प्रतिषेधमात्रमुच्यते, किन्तु तस्य वस्तुनः कश्चिद् भागोऽर्थान्तरनिवृत्त्या लोके गम्यते यथा विषाणित्वादनश्वः इति । न चाक्षिप्तो विशेषः, साक्षादभिधीयमानत्वात् । यथैव सामान्यमुच्यते तथा विशेषोऽपीत्युभयमत्र मुख्यं वाच्यमित्यतः सामान्यविशेषात्मकमेवाभिधेयम् ।” इति सिद्धसेनगणिविरचितायां तत्त्वार्थभाष्यव्याख्यायाम् ५।२४ । “स एव चायं समानरूपप्रतिभासी भेदो निर्दिष्ट आचार्यदिङ्गागेन । कथमित्याह - अर्थान्तरल्यावृत्त्या तस्य वस्तुनः कश्चिद् भागो गम्यत इति, तथा शब्दोऽर्थान्तरनिवृत्तिविशिष्टानेव भावानाह इत्यादिना । 'आदि'ग्रहणात् शब्दार्थान्तरापोहं कुर्वती श्रुतिरभिधत्त इत्यादिपरिग्रहः [ पृ० २५१] 'आचार्यदिङ्गाग आह" ......शब्दा[A]न्तरापोहं कुर्वती श्रुतिः स्वार्थमभिधत्ते इति ।” [ पृ० २५३ ] इति प्रमाणवार्तिकस्ववृत्तेः कर्णकगोमिविरचितायां टीकायाम् १।१२९। “किमपोहो वाच्योऽथावाच्य इति । यदि वाच्यः, अनैकान्तिकः शब्दार्थः 'अन्यापोहः शब्दार्थः' इति । अनवस्था वा, अथानपोहव्युदासरूपेणाभिधीयतेऽपोहः तस्याप्यन्य इत्यनवस्था । अथावाच्यः, 'शब्दार्थान्तरापोहं करोति' इति व्याहतम् । यदि च शब्दस्यापोहो नाभिधेयार्थः, अभिधेयार्थव्यतिरेकेण स्वार्थो वक्तव्यः । अथ स एवास्य स्वार्थः तथापि व्याहतम् अन्यशब्दार्थापोहं खार्थे कुर्वती श्रुतिः अभिधत्त इत्युच्यते इति । तस्य वाक्यस्यायमर्थस्तदानीं भवति-अन्यदनभिदधानोऽभिधत्त इति ।" इति उक्ष्योतकरविरचिते न्यायवार्तिके २।२।६७॥
१दृश्यतां पृ०५४७दि. ८॥२“परमार्थतस्तु वाक्यार्थ एक एव, सर्वोऽपि शब्दः प्रतिभाया एव हेतुरिति तत्त्वरूपमिदानीं
MMw
Www
Wwwwwr
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org