________________
प्रतिभा वाक्यार्थः' इत्यभिधानम् ] अयमृजुसूत्रदेशत्वात् पर्यायास्तिकः ।
द्वादशारं नयचक्रम्
व्याघ्रादिशब्दश्रवणात् कोप-हर्ष- भयादिनिमित्तेत्यादि यथावदनुगन्तव्यम् । वाक्यार्थप्रतिपत्त्युपायः पदार्थो - सन् वाक्यादपोद्धृत्य उत्प्रेक्षया व्याख्यायते ।
५४९
अयं पुनर्नयः कतमः शास्त्रविहितानामिति चेत्, ऋजुसूत्र देशत्वात् पर्यायास्तिकः । एकैकस्य
1
Jain Education International
प्रस्तावयितुमाह-अभ्यासात् प्रतिभाहेतुः सर्वः शब्दोऽपरैः स्मृतः । बालानां च तिरश्चां च यथाऽर्थप्रतिपादने ॥ [ वाक्यप० २।११८ ] अपरैराचार्यैः सर्वः यः कश्चिच्छन्दः स प्रतिभाहेतुः जडानामपि प्रतिभाहेतुरित्याह - बालानामित्यादि । आस्तां विदितसमयस्य किं न भविष्यत्यसौ प्रतिभाहेतुः । येऽप्यविदितसङ्केता अमी बाला जडप्राया वा तिर्यञ्चः तेषामप्यनादिवासनावशात् तदर्थः प्रतीयमानो दृश्यते शब्दः । तथा च जडानामपि प्राणिनां नियतपदः शब्दः सम्बोधनायोदीर्यते । तेन प्रतिनियतजात्यनुसारेण नियतैव काचित् प्रतिभा प्रबोध्यते इति तन्मूल एव सर्वः कश्चित् तेषां व्यवहारः । अनेनैतदुच्यते यदियं प्रतिभा सर्वप्राणिसंवेद्या शब्दनिमित्ता सकलव्यवहारमूलभूताऽनपह्नवनीया । तदपहवे स्वात्मैव विप्रलभ्यते । तत् प्रतिभाभ्युपगमोऽवश्याश्रयणीयः ॥ ११८ ॥ अभ्यासात् प्रतिभाहेतुरित्युक्तम् । तत्राभ्यासः किमिदानीन्तन उत जन्मान्तरभावी ? तस्य च किं स्वरूपमित्याशङ्कयाह – अनागमश्च सोऽभ्यासः समयः कैश्चिदिष्यते । स चाभ्यासोऽनागम इदानीन्तनो न भवति, न हि बालस्य तदैवोपदिष्टं केनचित् इति जन्मान्तरभाव्येव । स च समय इष्यते सङ्केतस्वरूपोऽसाविष्यत इति खरूपमेवास्य स्फुटयितुमाह – अनन्तरमिदं कार्यमस्मादित्युपदर्शकः ॥ [ वाक्यप० २।११९ ] स चानन्तरमिदं कार्यमित्युपदर्शनस्वभावः । यथा कशाभिघातमात्रसमनन्तरमेव वाजिनोऽतियान्ति अङ्कुशाभिघातेन च गजाः एवमन्येऽपि प्राणिनोऽनादिवासनाभ्यासवशेन प्रतिभातः समुचितव्यवहारं कुर्वन्तो लोकयात्रां निर्वाहयन्तीति स्थितम् । एवमखण्डमेव वाक्यम्, प्रतिभा च वाक्यार्थ इति समाश्रयणीयम् । पदपदार्थापोद्धारमाश्रित्य प्रतिनिध्यादिकल्पनं प्रासङ्गिकादिन्यायनिर्वाहश्च भविष्यतीति व्यवस्थापितम् । ....... अथ प्रतिभाखरूपमेव पूर्वोपक्रान्तमनुबध्नन्नाह - विच्छेदग्रहणेऽर्थानां प्रतिभाऽन्यैव जायते । वाक्यार्थ इति तामाहुः पदार्थैरुपपादिताम् ॥ [ वाक्यप० २।१४४ ], देवदत्तादिपदेभ्यो बिच्छिन्नेभ्यस्तदर्थानां विच्छेदेनैव ग्रहणे प्रत्ययवेलायामेका प्रतिभा पदार्थमतिव्यतिरिक्तैव जायते । तां च वाक्यार्थं वैयाकरणा आहुः । उपाय इत्याह – पदार्थैरुपपादितामिति । पदार्थैरसत्यैरेवोपाधिभूतैरुपपादितामभिव्यक्तामिति ॥” इति पुण्यराजविर - चितायां वाक्यपदीयटीकायाम् । “अभ्यासात् प्रतिभा हेतुः सर्वः शब्दः समासतः । बालानां च तिरश्चां च यथाऽर्थप्रतिपादने ॥ ८९२॥ अन्ये त्वाहुः - अभ्यासात् प्रतिभाहेतुः शब्दो न तु बाह्यार्थप्रत्यायक इति, दर्शयति - अभ्यासादित्यादि । शब्दस्म क्वचिद् विषये पुनः पुनः प्रवृत्तिदर्शनमभ्यासः । नियतसाधनावच्छिन्नक्रियाप्रतिपत्त्यनुकूला प्रज्ञा प्रतिभा । सा प्रयोगदर्शनावृत्तिहितेन शब्देन जन्यते, प्रतिवाक्यं प्रतिपुरुषं च सा भिद्यते । स तु तस्या अपरिमाणो भेदः शब्दव्यवहारस्यानन्त्यान शक्यते विधातुमित्यत आह-समासत इति । अत्र दृष्टान्तमाह - बालानां च तिरश्चां चेत्यादि । यथैव ह्यशाभिघातादयो हस्त्यादीनामर्थप्रतिपत्तौ क्रियमाणायां प्रतिभाहेतवो भवन्ति तथा सर्वेऽर्थवत्सम्मता वृक्षादयः शब्दा यथाभ्यासं प्रतिभामात्रोपसंहारहेतवो भवन्ति, न त्वर्थ साक्षात् प्रतिपादयन्ति । अन्यथा हि कथं परस्परपराहताः प्रवचनमेदा उत्पाद्यकथाप्रबन्धाश्च स्वविकल्पोपरचितपदार्थभेदद्योतकाः स्युरिति ।" तत्त्वसं० पं० । “अभ्यासात् प्रतिभाहेतुः सर्वः शब्दः समासतः । बालानां च तिरश्चां च यथाऽर्थप्रतिपादने ॥ [ विधिवि० ] | अभ्यासजनितां भावनामभ्यासशब्देनाह कार्ये कारणोपचारात् । नाभिधानाधीनोऽर्थबोध: शब्दात् अपि त्वभ्यासाधीनः । यथा हि खलु कशाङ्कुशाभिघातादयोऽनभिधायका अपि वाजिगजादीनामभ्यासात् स्वतः प्रवृत्तिनिवृत्तिहेतुमर्थप्रतिभासां प्रतिभां भावयन्तः प्रवर्तका निवर्तकाश्च तथा सङ्क्षेपतः सर्वः शब्दो व्युत्पन्नानामव्युत्पन्नानां चेह जन्मनीत्यर्थः । अयं च प्राग्भवीयोऽभ्यासोऽवश्याभ्युपेय इत्यत्र दृष्टान्तमाह - 'बालानां च तिरवां च यथाऽर्थप्रतिपादने' । अर्थाभासप्रतिभोत्पादनेन चार्थप्रतिपादनमुक्तम् [ पृ० १०] । विशिष्टसाधनावच्छिन्न क्रियाप्रतीत्यनुकूला प्रज्ञा प्रतिभा' [ विधिवि० ] । साध्यसाधनेतिकर्तव्यतावच्छिन्नायाः क्रियायाः प्रतिपत्तावनुकूलां तत्प्रतिपत्त्या कार्येऽनुष्ठानलक्षणे कर्तव्ये सहकारिणीं कर्तव्यमिति प्रज्ञां प्रतिभामध्यगीष्महि [ पृ० २४७ ]" इति मण्डनमिश्रविरचित विधिविवेकस्य वाचस्पति मिश्रकृतामा न्याय कणिकायां व्याख्यायाम् ॥
१ पदार्थात्वाक्या ० ॥
For Private & Personal Use Only
www.jainelibrary.org