________________
६५०
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [सप्तम उभयोभयारे परि समन्तात्......। उपनिवन्धनमप्यस्य आर्षम्-आता भंते ! पोग्गले, णो आता ? गोतमा ! सिया आता
नयस्य शतधा भेदाभ्युपगमादृजुसूत्रदेशोऽयमृजुसूत्रभेदः, १ . ऐक्केको य सतविधो सत्त णयसता हवंति एवं तु। 5
वितियो वि अ आदेसो पंच णयसता हवंतेवं ॥ [ भाव० नि० ७५९] इति वचनात् । ऋजु प्रगुणं सूत्रयति तत्रयत इति ऋजुसूत्रः, सूत्रपातवदृजुसूत्र इति वा।
परि समन्तादित्यादिना पर्यायास्तिकशब्दार्थ सव्युत्पत्तिं स्वयमेव व्याचष्टे । किमेताः स्वमनीषिका उच्यन्ते, आहोस्विदस्य नयस्य निबन्धनमस्त्यार्षम् ? इति, 'अस्ति' इत्युच्यते,
३६९२
। १ एकेको य सतविधो पंच नयसता हवंति एवं तु । वितिओ वि अ आदेसो सत्त णयसता हवंतेवं प्र.। हस्तलिखितादर्शप्रतिस्थोऽयं पाठोऽशुद्धो भाति । दृश्यतां पृ० ३७३ पं० ११ टि. ३ । पृ० ४१४ पं० २४ टि. ९ । अत्र “एक्कक्को य सयविहो सत्त णयसया हवंति एवं तु । अण्णोवि य आएसो पंच सया हुँति उ नयाणं ॥ -७५९॥" इति पाठो हरिभद्रसूरीणां मलयगिरिसूरीगां चाभिप्रेत इति आवश्यकनियुक्तिव्याख्यावलोकनादवसीयते । तथाहि तद्वयाख्या-"अनन्तरोक्तनैगमादिनयानामेकैकश्च वभेदापेक्षया शतविधः शतभेदः, सप्त नयशतानि भवन्ति एवं तु। अन्योऽपि चादेशः पञ्च शतानि भवन्ति तु नयानाम् , शब्दादीनामेकत्वात् एकैकस्य च शतविधत्वादिति हृदयम् । अपिशब्दात् षद चत्वारि द्वे वा शते । तत्र षट् शतानि नैगमस्य सङ्ग्रहव्यवहारद्वये प्रवेशात् एकैकस्य च शतभेदत्वात् । तथा चत्वारि शतानि सहव्यवहारऋजुसूत्रशब्दानामेकैकनयानां शतविधत्वात् । शतद्वयं तु नैगमादीनामृजुसूत्रपर्यन्तानां द्रव्यास्तिकत्वात् शब्दादीनां च. पर्यायास्तिकत्वात् तयोश्च शतभेदत्वादिति गाथार्थः ।” इति हरिभद्रसूरिविरचितायामावश्यकनियुक्तिवृत्तौ । एतादृशी एव मलयगिरीया वृत्तिः। जिनभद्रगणिक्षमाश्रमणविरचिते विशेषावश्यकभाष्ये तु “इक्किक्को य सयविहो सत्त नयसया हवंति एमेव । अन्नोवि य आएसो पंचेव सया नयाणं तु ॥ २२६४ ॥” इति आवश्यकनियुक्तिपाठः । “एकेको य सयविहो. गाहा । एक्केको शतभेद इति सप्त शतानीति । बितिओ वि य आदेसो पंच सया । नणु किमिति ? तिन्नि वि सद्दनया एगो चेव, तेण पंच सया, णेगमसंगहयवहारउजुसुयसदा एत्थ उदाहरणं, एत्थ एको उ सयभेद इति पंच सया अपि । 'च'सद्दादन्नो वि आदेसो-जहा छ मूलनया।णेगमो दुविहो संगहितो य असंगहितो य । संगहितो संगहं पविट्ठो, असंगहितो ववहार पविट्ठो, एक्कोको य सयविहो, एवं छ स्सया। अहवा चत्तारि मूलनया-नेगमो संगहितो संगहं पविट्ठो, असंगहितो असंगई पविट्ठो, तेण संगहववहारउजुसुयसद्दा चत्तारि णया, ते विभजमाणा एकेको सयविहो, एवं चत्तारि नयसता । अहवा दो मूलनया-दव्वट्ठियो य पजवट्ठियो य, एक्कको सयविहो एवं दो णयसया । अहवा दो नया - ववहारिओ णेच्छतितो य । उदाहरणं-वावहारियणयस्स कालतो भमरो, णेच्छतियणयस्स पंचवन्नो जाव अट्ठफासो। अहवा दो मूलणया-अप्पियववहारितो य अणप्पियववहारितो य । उदाहरणं-जीवो नारकत्वेनार्पितः जीवत्वेनानर्पितः, एवं तिर्यग्मनुष्यदेवत्वेनापि भाव्यः । अहवा दो नया-तीयभावपन्नवतो पडप्पन्नभावपन्नवतो य । उदाहरणं-'नेरतियाणं भंते। किं एगिदियसरीराई' आलावओ। एवं एते उल्लोयेण णया भणिता ॥ ७५९ ॥” इति जिनदासगणिमहत्तरविरचितायाम् आवश्यकचूर्णी ॥ २ "ऋजु प्रगुणं सूत्रयति तन्त्रयत इति ऋजुसूत्रः।"-तत्त्वार्थसर्वार्थसि० १।३३ । “सूत्रपातवजुत्वादृजुसूत्रः । यथा ऋजुः सूत्रपातः तथा ऋजु प्रगुणं सूत्रयति तात्रयति ऋजुसूत्रः । पूर्वास्त्रिकालविषयानतिशय्य वर्तमानकालविषयमादत्ते, अतीतानागतयोविनष्टानुत्पन्नत्वेन व्यवहाराभावात् । समयमात्रमस्य निर्दिदिक्षितम् ।"-तत्त्वार्थराजवा० १।३३। “ऋजु प्राजलं वर्तमानपर्यायमात्रं सूत्रयति प्ररूपयति इति ऋजुसूत्रः।"-न्यायकुमु०६७१॥३'परि समन्तादेति गच्छतीति पर्यायः, सोऽस्तीति मतिरस्येति पर्यायास्तिकः।' इत्येतादृशं मूलमत्र स्यादिति भाति । दृश्यतां पृ० ७५० ८-११ । “परि भेदमेति गच्छतीति पर्यायः । पर्याय एवार्थः प्रयोजनमस्येति पर्यायार्थिकः ।"-धवलाटी० पृ० ८४ । “परि समन्तादायः पर्यायः । पर्याय एवार्थः कार्यमस्य, न द्रव्यम् ,... इति पर्यायार्थिकः।"-तत्वार्थराज०१३३॥ ४त्पत्ति य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org