________________
आर्षवचनेन संवादोपदर्शनम् ] द्वादशार नयचक्रम् परमाणुपोग्गला(ले), सिया णो आता । से केणद्वेण भंते ! एवं वुञ्चति-सिया आता परमाणुपोग्गले सिया णो आता? गोतमा ! अप्पणो आदितु आता परस्स आदि? णो आता [भगवतीसू० १२।१०।४६९] |
इति सप्तमोऽर उभयोभयभङ्गः।
उपनिबन्धनमप्यस्य यतो निर्गमस्तदस्त्यार्षम् । तद्यथा- आता भंते ! पोग्गले इत्यादि । पुद्गलानामात्मा स्वरूपं नो आत्मा पररूपमिति भावाभावौ विधिनियमाविति प्रश्नो गौतमस्य इन्द्रभूतेर्गणधरस्य । व्याक-5 रणं भगवानाह -गौतम ! सिया आता परमाणुपोग्गला(ले) सिया णों आता, भवत्यपि [न भवत्यपि] । सेकेणदेणेत्यादि कारणप्रश्नः। एवमिति स्याच्छब्दार्थ प्रत्युच्चारयति । केनार्थेन स्यादात्मा परमाणुपुद्गलः, स्यानो आत्मा ? इति विवृणोति तैमेव । को निश्चय इति प्रश्नः । भगवानाह - गोतमा ! अप्पणो आदिढे आता आत्मना स्वरूपेण आदिष्टे अर्पिते विवक्षिते आत्मा भावो विधिः स्वरूपम् । परस्स आदिदे णो आता, परस्य आदिष्टे नो आत्मा [अ]वृत्तिरभावो नियम इति । तथा द्विप्रदे-10 शिकादिस्कन्धाः आकाशाद्यस्तिकाया घटपटादयश्चार्था यथा विस्तरशो व्याख्यातमिति ।
इति नयचक्रटीकायां सप्तमोर उभयोभयभङ्गः समाप्तः॥
१ "आया भंते ! रयणप्पभा पुढवी, अन्ना रयणप्पभा पुढवी ? गोयमा ! रयणप्पभा पुढवी सिय आया, सिय नो आया, सिय अवत्तव्वं आयाति य नो आयाइ य । से केण?णं भंते ! एवं वुच्चइ- रयणप्पभा पुढवी सिय आया सिय नो आया सिय अवत्तव्वं आताति य नो आताति य ? गोयमा ! अप्पणो आदिढे आया, पररस आदिढे नो आया, तदुभयस्स आदिढे अवत्तव्वं रयणप्पभा पुढवी आयाति य नो आयाति य । से तेणढणं तं चेव जाव नो आताति य ।......'आया भंते ! परमाणुपोग्गले, अन्ने परमाणुपोग्गले ? एवं जहा सोहम्मे कप्पे तहा परमाणुपोग्गलेवि भाणियध्वे ।" इति भगवतीसूत्रे पाठः, १२।१०१४६९। व्याख्या- "आत्माधिकाराद् रत्नप्रभादिभावानामात्मत्वादिभावेन चिन्तयन्नाह -आया भंते इत्यादि, अतति सततं गच्छति तांस्तान् पर्यायानित्यात्मा, ततश्च आस्मा सद्रूपा पृथिवी, अनति अनात्मा असद्रूपेत्यर्थः । सिय आया सिय नो आयत्ति, स्यात् सती स्यादसती, सिय अवत्तव्वंति आत्मत्वेन अनात्मत्वेन च व्यपदेष्टुमशक्यं वस्त्विति भावः, कथमवक्तव्यमित्याहआत्मेति च नोआत्मेति च वक्तुमशक्यमित्यर्थः । अप्पणो आइट्रेत्ति आत्मनः खस्य रत्नप्रभाया एव वर्णादिपर्यायैः आदिष्टे भादेशे सति तैर्व्यपदिष्टा सतीत्यर्थः नोआत्मा अनात्मा भवति, पररूपापेक्षयाऽसतीत्यर्थः । तदुभयस्स आइ अवत्तव्धति तयोः खपरयोरुभयं तदेव वोभयं तदुभयम् , तस्य पर्यायैरादिष्टे आदेशे सती तदुभयपर्यायैर्व्यपदिष्टेत्यर्थः, अवक्तव्यम् , अवाच्यं वस्तु स्यात्, तथाहि-न ह्यसौ आत्मेति वक्तुं शक्या, परपर्यायापेक्षया अनात्मत्वात् तस्याः । नाप्यनात्मेति वक्तुं शक्या, खपर्यायापेक्षया तस्या आत्मत्वादिति । अवक्तव्यत्वं चात्मानात्मशब्दापेक्षयैव, न तु सर्वथा, अवक्तव्यशब्देनैव तस्या उच्यमानत्वात् , अनभिलाप्यभावानामपि भाव-पदार्थ-वस्तुप्रभृतिशब्दैरनभिलाप्यशब्देन वाऽभिलाप्यत्वादिति । एवं परमाणुसूत्रमपि।" इति अभयदेवसूरिविरचितायां भगवतीसूत्रवृत्तौ ॥ २ 'पुद्गलो नाम आत्मा' इत्यपि पाठोऽत्र चिन्त्यः। (पुद्गलः किमात्मा?)॥ ३ भावो विधि भा० ॥ ४ सिआ य०॥ ५ तत्मव प्र०॥ ६ आत्मनो य०॥ ७ आह भावो प्र०॥ ८"आया भंते ! दुपएसिए खंधे, अन्ने दुपएसिए खधे ? गोयमा दुपएसिए खंधे सिय आया १। सिय मो आया २। सिय अवत्तव्वं आयाइ य नो आयाति य ३ । सिय आया य नो आया य ४ । सिय आया य अवत्तव्यं आयाति य नो आयाति य ५ । सिय नो आया य अवत्तव्वं आयाति य नो आयाति य ६ । से केणटेणं भंते । एवं तं चेव जाव भा याति य नो आयाति य? गोयमा| अप्पणो आदिढे आया १ । परस्स आदिढे मो आया २ । तदुभयस्स भाविद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org