Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi पन्यशाली भद्र महाकाव्यम् | सर्गः १ अथ सर्व गृहारम्भ, प्रविहाय प्रयत्नतः । साधुपादान्नमस्कर्तु-माजग्मुः केऽप्युपासकाः ॥ ९७ ॥ पञ्चाङ्गप्रणिपातेन, तेऽनगारान् ववन्दिरे । साधवोऽपि ददुस्तेभ्यो, धर्मलाभाशिर्ष शुभाम् ॥ ९८॥ ते बद्धाञ्जलयो नम्र-मूर्धानः शुद्धभूतले । श्रावकानप्यनुज्येष्ठं, वन्दित्वोपाविशंस्ततः ॥ ९९।। स तदा कुलपुत्रोऽपि, भ्राम्यंस्तत्र समाययौ । दृष्ट्वा हृष्टमनाः साधून, प्रणम्य समुपाविशत् ॥१०॥ ततस्तन्मध्यतः साधुः, परोपकृतिलालसः। गीतार्थो देशनालब्धिसम्पन्नो देशानां व्यधात् ॥१शातथाहिक्षान्तिर्दिवमार्जवं च सततं मुक्तिस्तपः संयमः, सत्यं शौचमकिञ्चनत्वमतुलं सब्रह्मचर्य तथा । कर्तव्यं यतिनामयं दशविधोधर्मोऽचिरान्मुक्तिदो, ज्ञेयो द्वादशधा क्रमेण शिवदः सुश्रावकाणां पुनः।। सम्यक्त्वमूलानि निकेतभाजा-मणुव्रतानीह भवन्ति पञ्च । गुणव्रतानां त्रितयं च शिक्षा-व्रतानि चत्वारि सुखप्रदानि या वोतरागेऽर्हति देवबुद्धि-गुरौ विश्रुद्ध गुरुतामनीषा । धमऽहंदुक्तऽपि च धर्मबुद्धिः, सम्यक्त्वमेतत्कथितं जिनेन्द्रैः ॥ ४ ॥ अदेवतायां किल देवबुद्धि-गुरावशुद्धे गुरुतामतिश्च । अशुद्धधर्मेऽपि च धर्मबुद्धि-मिथ्यात्वमेतद्भणितं मुनीन्द्रैः॥ विधात्रिधादिना स्थूला-अवेभ्यो विनिवर्त्तनम् । अणुव्रतानि पंचवं, प्राहुस्तीर्थकरादयः ॥६॥ नामतस्तानि चामनि, भवन्ति गृहिणामिह । अहिंसासूनृतास्तैन्य-ब्रह्मचर्यापरिग्रहाः ॥७॥ १ गृहीणाम् For Private and Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 117