Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 59
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली पहाकाव्यम् सर्गः४ JEE||५७॥ रत्नकम्बलकास्तत्र, भद्रया शीलभद्रया । यथोक्तेनैव मूल्येन, सर्वेऽग्राहिषत प्रभो ॥ २६ ॥ चेल्लणा च तदाकर्ण्य, रोषविस्फुरिताधरा । जगाद पृथिवीनाथं, सनिष्टुरमिदं वचः ॥ २७ ॥ यादृशी वाणिजस्त्रीणां, तादृश्यपि न विद्यते । क्षत्रियप्रवरस्थापि, तव स्वामिन्नुदारता ॥ २८ ॥ ततः प्रेष्य प्रतीहारं, शालिभद्रगृहे तदा । अयाचि कम्बलं भद्रा, श्रेणिकेन महीभुजा ॥ २९ ।। भद्रे येऽद्य त्वया क्रीताः, कम्बलास्तेषु कश्चन । एक मूल्येन मे देहि, रत्नकम्बलमुत्तमम् ॥३०॥ भद्रोचे कम्बला येऽद्य, क्रीताश्छिन्नास्तदैव ते । शालिभद्रकलत्राणां, पादप्रोज्छनहेतवे ॥३१॥ पूर्वोपात्तास्तु सन्त्येते, प्रकटीभूततन्तवः । किञ्चित्कंसारिकाकीटै-भक्षितत्वात् कचित् कचित् ।। शय्यामारोदुकामानां, वधूनां वासमन्दिरे दुन्वन्त्यघितलं पद्म-दलवत्कोमलं यतः ॥ ३३ ॥ अच्छिन्नाः सन्खतस्ते चे-दुपकुर्वन्ति भूपतेः । मूल्यं विनापि ग्रह्यतां, धन्यं यदुपयोगि वः ३४ एवमुक्तः प्रतीहारः, समागत्य नृपान्तिक । यदुक्तं भद्रया तत्र, तदाख्यत्पृथिवीभुजे ॥ ३५ ॥ अत्रान्तरे नरेन्द्रस्य, पादयन्दनहेतवे । तत्राभयकुमाराख्यः, सुतामात्यः समाययौ ॥ ६ ॥ तं स्वस्याशेषकार्येषु, प्रच्छनीयं विशेषतः । बृहस्पतिमिवेन्द्रस्य, सर्वबुद्धिमहानिधिम् ॥ ७ ॥ पप्रच्छोवीपतिः प्रीतः, कीदृशो विभवोदयः । श्रूयते शालिभद्रस्य, श्रीदस्येव महानिति ।।८ायुग्मम् पश्चशत्या अमाखानां, धुरीणः क्षीणदूषणः । तज्ज्ञोऽभयकुमारोऽपि, जगाद पृथिवीपतिम् ३९ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117