Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 77
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र॥ ७५ ॥ महाकाव्यम् सर्गः ४ ॥७५॥ लोकपालका لالالالالالالالالالا सद्यः क्लसागरागोऽसौ, वृन्दारकविलेपनैः । भव्यैर्दिव्यैरलङ्कारैः, सर्वाङ्गेषु विभूषितः ।। ५८॥ प्रधानैर्देवदृष्यैश्च, कृता कल्पप्रसाधनः । एवं परिष्कृताङ्गाभिः, पत्नीभिरभितो वृतः॥ ५९॥ शारदः किमयं चन्द्र-स्ताराभिः परिवारितः । सलीलगमनः किंवा, देवदन्ती वशान्वितः ॥ ६॥ किमु कल्पलतायुक्तो, जङ्गमः कल्पपादपः । अप्सरोभिर्वृतः शक्रः, स्वर्गादवतरत्यसौ ॥ ६१ ॥ जनयन्निति सन्देह, जनानां श्रेष्ठिनन्दनः । रूपनिर्जितकन्दर्प-श्चतुर्थो:मवातरत् ॥ ६२॥ पश्चभिाकुलकम् ॥ स्फुरत्परिमलोद्गार-वासिताशेषदिग्मुखं । सभार्य तं समायान्तं, निर्वाचिन्तयन्नृपः ॥ ६३ ॥ अहो सुचीर्णपुण्यानां, किमसाध्यं शरीरिणां। वणिग्मात्रोऽप्यसौ येना-नुकरोति सुरश्रियम् ।। ६४ ॥ ततश्चाभ्यर्णमभ्येत्य, समं चेल्लणया नृपम् । प्रणनाम सभार्योऽपि, शालिभद्रो महाभुजः ॥ ६५ ।। समालिंग्य निजोत्सने, भूपतिस्तं न्यवीविशत् । द्वात्रिंशत्तत्सर्मिण्यो, निषेदुरुपचेल्लणम् ॥६६॥ राज्ञा विस्मितचित्तेन, जल्पितोऽपि न जल्पति । किन्तु म्लनास्यपद्मोऽसौ, बाष्पापूर्णेक्षणोऽभवत्॥ ततः क्षणान्तराद्रा, प्राहैनं विमुज प्रभो । मानुष्यं माल्यगन्धादि, नैवैष सहते यतः ।। ६८ ॥ वर्णचूर्णप्रसूनानि, दिव्यानि प्रतिवासरम् । सर्व सम्पादयत्यस्य, देवभूयं गतः पिता ।। ६९॥ भुंक्त स्वामिन्नयं देव-कुरूणां फलसञ्चयम् । पानीयमपि तत्रत्यं, पिबत्यमरदौकितम् ॥ ७० ॥ १ अकल्पो धेशः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117