Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 81
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandi पहाकाव्यम् धन्यशाली JE -अथ श्रीपञ्चमो परिच्छेदः प्रारभ्यते| अथ श्रीश्रेष्ठितनयः, प्रणम्योचे स्वमातरम् । अद्य श्रीधर्मघोषाख्य-मुनीश्वरमुखाम्बुजात् ॥२॥ ॥७९॥ सगः | धम्मो निश्शेषदुःखौघा-कुरपूरानलोपमः । निर्वाणसुखलाभस्यो-पायभूतः श्रुतो मया ॥२॥ युग्मम्॥ BET॥७९॥ स मह्यमरुचद्वाद, मातः! श्रीमूरिणोदितः । शर्कराघृतसम्मिश्र, क्षुधितायेव पायसम् ॥ ३॥ भद्राह वत्स तद्वं, यच्छतो रुचितश्च ते । धर्मोऽसावाहतो यस्मा-पितुस्तस्यासि नन्दनः ॥ ४ ॥ इल्याकर्णितधर्माण, शालिभद्रं निजागजम् । प्रशशंसेति भद्राऽपि, प्रमोदभरपूरिता ॥५॥ यद्येवं तहि मातस्त्वं, प्रसद्यानुमनुष्व माम् । गृहीत्वाऽहं परिव्रज्यां, विधास्याम्यात्मनो हितम् ॥ ६॥ आकर्ण्य कर्णकटुकं, वचः सूनोजनन्यथ । मूर्छया न्यपतद् भूमौ, सर्वाङ्गप्वपि निस्सहा ॥ ७ ॥ ततः शीताम्धुना सिक्ता, व्यजनेन च वीजिता । सा लब्ध्वा चेतनामा शु, सुदीनवदनाम्धुजा ॥८॥ बाष्पविन्दन्विमुञ्चन्ती, व्याहरद्गद्गादाक्षरम् । त्वमेको दुर्लभः सूनु-र्ममोन्दुम्बरपुष्पवत् ।'९॥ ततो यावदहं वत्स, करोमि प्राणधारणम् । मा गृहाण व्रतं ताव-दिति माताऽब्रवीत्सुतम् ॥१०॥ पुत्रः-पक्काम्रफलवद्याति, जीवितं जन्मिनामतः । न ज्ञायतेऽत्र कः पूर्व, को वा पश्चाविपद्यते ॥११॥ माता-सुरूपमरुजं तेऽङ्ग, लक्षितं च सुलक्षणैः । तद्वत्स लालयापूर्व- गाजैर्देवताहतैः ॥ १२ ॥ पुत्रः-अम्बाशुचिरयं कायः, शुच्यपीहांशुकादिकम् । दूषयत्यम्बु जीमूता-द्भवमूषरभूरिव ॥ १३ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117