Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
धन्यशाली भद्र॥ ८९॥
ل يه
महाकाव्यम् सर्गः ५ ॥ ८९॥
يعني لو أن العالم العارفنا الكنعانية
فنان لنفتاليا
والقنا الله
ततस्तौ स्वगृहे गत्वा, रथयात्रापुरस्सरम् । व्यधत्तां जिनचेत्येषु, पूजामष्टाहिकादिकाम् ॥ ३२ ॥ नियुचाते स्म चैत्यानां, निश्रासु प्रचुरं धनम् । सुश्रावकान् समाहय, तेषां प्रत्यक्षमेव हि।।३३।। ददतुः श्रावकेभ्योऽपि वाञ्छिताभ्यधिकं धनम् । सुस्थचित्ता यथा तेऽपि, चैत्यचिन्तां प्रकुर्वते॥ साधारणं दशक्षेच्या-स्तेषामायत्तमेव हि । चक्रतुर्वसुभूयिष्ठं, शासनोन्नतिहेतवे ॥ ३५ ॥ गत्वोद्यानवनं नत्वा, स्वयमेवातिभक्तितः । स्वामिनो गृहचैत्यानि, वन्दध्वमिति सादरम्।। ३६ ॥ आहूय सपरिवारान् , समस्तान्गणधारिणः । समग्रार्यायुतां चार्य-चन्दनां निजसद्मनि ॥ ३७॥ चतुर्विधेन भक्तन, प्रासुकेनोत्तमेन तौ । प्रतिलम्भयतः स्मोच्चै-वस्त्रैः पात्रश्च कम्बलैः ॥ ३८ ॥ तदा तत्र समाइय, श्रावकान् श्राविका अपि । पूजयामासतुः प्राज्य-स्ताम्बूलवसनादिभिः ॥३९॥ पटहाघोषणापूर्व, दीनादिभ्योऽपि सर्वतः । उचितं वस्त्रभोज्यादि, दापितं चामुकम्पया ॥ ४०॥ अमारिघोषणापूर्व, प्रकृतिभ्योऽपि भोजनम् । अष्टाहिकादिनेबूच्चै-जीवघातनिवृत्तये ।। ४१ ॥ अन्यतीर्थिकलिङ्गिभ्योऽप्यन्नाच्छादनमात्रकम् । माध्यस्थ्यसूचकं दत्तं, शासनोन्नतिहेतवे ॥ ४२ ॥ यतस्तेभ्योऽधिकं दत्तं, मिथ्यात्वस्याभिवृद्धये । क्षीरदानमिवाहिन्यो, लोकापकृतये भवेत्॥ ४३ ।। राजानं सपरीवारं, बहुमानपुरस्सरम् । स्ववन्धून् पुरलोकांश्च, समाष्टय शुभे दिने ॥ ४४ ॥ सहस्रनरवोढव्ये, पताकावलिसकुले । मनोज्ञरूपकाकीर्णे, विस्तीर्णे बरवेदिके ॥ ४५ ॥
For Private and Personal Use Only

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117