Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 101
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र॥ ९९ ॥ JEमहाकाव्यम् सगः५ ॥९९ ॥ فقدان ا لانسان الفنان المال السنه المياه अत्यन्ततपसा क्षाम-देहत्वादुपलक्षितौ । न केनापि महर्षी ता, कृतरूपान्तराविव ।। ६४ ॥ श्रीमद्राजगृहक्रीडा-शैलचलावलम्बिनि । आगाद् गुणशिलोद्याने, वीरः साधुगणावृतः॥६५॥ आगतौ च मुनी धन्य-शालिभद्रौ भविष्यतः । त्वर्यतां त्वर्यतां भो भो-स्तेषां वन्दनहेतवे ॥६६॥ भद्रेति सपरीवारा, व्याकुला गमनार्थिनी । नाज्ञासीत्तौ समायातौ, स्वगृहेऽपि तपस्विनौ ॥ ६७ ॥ तत्र व्यग्रतया तौ तु, न कोऽपि प्रत्यलम्भयत । क्षणमात्रमवस्थाय, न्यवर्त्ततां शुभाशयौ ॥ ६८ ॥ ईर्यासमितिसम्पन्नौ, गच्छन्ती पुरगोपुरे । प्रापतुर्मध्यभाग तौ, यावत्तावत्तयोः पुरः॥ ६९ ॥ काचिदाभीरवृद्धस्त्री, तक्रविक्रयकारिणी । सुस्निग्धदधिसम्पूर्ण स्थालिशोभितमस्तका ॥ ७० ॥ नयोरासनसर्वार्थ-सिद्धिश्रीसुखसङ्गमे । मङ्गलं सूचयन्तीव सम्मुखीना समाययौ ॥७१।। युग्मम् ।। वीक्षमाणा च सा शालि-भद्रं पुत्रमिव स्वकम् । आनन्दाश्रुपयःपूर -परिप्लुतविलोचना ।। ७२ ॥ हर्षात्कर्षवशोद्भिन्न-रोमाश्चाश्चितविग्रहा । बभूव प्रस्रवस्निग्ध-दुग्धधारपयोधरा ।। ७३ ॥युग्मम्।। ततश्चैतौ नमस्कृत्य, गृहीत्वा दधिभाजनम् । गृहीतं भगवन्तो वां दधीदमिति साऽब्रवीत् ॥ ७४ ॥ द्रव्यादिपूपयोगं तो, विधाय मुनिसत्तमौ । धारयामासतुः पात्रं रागाषितमानसौ ॥ ७५ ।। दृष्टचित्ता निचिक्षेप प्राज्यं तदधि तत्र सा । पर्याप्तिमिति कृत्वाती, जग्मतुर्वीरसन्निधौ ॥ ७६ ॥ तर्यापथिकी साधू प्रतिक्रम्य पुरः प्रभोः । कायोत्सर्गेऽतिचारं च, गमनागमनोद्भवम् ॥ ७७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117