Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 105
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandit धन्यशाली भद्र ॥१०३॥ JE महाकाव्यम् सर्गः६ । ॥१०॥ PAdappOADलाजल शीघ्रं तद्नेहमागत्य, पप्रच्छु?ःखकारणम् । धन्या ताभ्याऽभ्यधत्तवं, सशोका दुःखकारणम् ॥२७॥ अस्ति नास्तीत्यसौ गेहे, नवेत्यज्ञतया सुतः । ययाचे पायसं याद, दुःखेनारोदि तन्मया ॥२८॥ यद्येवं तर्हि मारोदी-र्दास्यामोऽयेव ते वयम् । क्षीरतण्डुलखण्डाद्या-नीति तास्तां बभाषिरे ॥२९॥ स्वगृहेभ्यः समानीय, दुग्धादीनि प्रभूतशः । धन्याय प्रतिवेश्मिन्यो, ददुः कल्पलता इव ॥३०॥ ततो धन्यां समस्तास्ता, एवं सदयमूचिरे । निष्पाद्य पायसं प्राज्य, पूरयास्य मनोरथम् ॥३१॥ विधाय पायसं रम्य, धन्योपावेशयत्सुतम् । खण्डाज्यप्राज्यमुत्कृष्टं, तत्स्थाले तन्निचिक्षिपे ॥३२॥ कृत्येन केनचिद्धन्या, प्रविवेश गृहान्तरम् । कृत्यानि च दरिद्राणा-ममिवृत्तानि सर्वदा ॥३३॥ मासक्षपणमाधाया-त्रान्तरे स मुनिर्वनात् । अनाकुलात्मा भिक्षायै, शालिग्राममथाविशत् ॥३४॥ पर्यटनुच्चनीचेषु, कुलेष्वागा-त्स तद्गृहम् । नौरिवोत्तारणायास्य, भवागाधपयोनिधेः ॥३५॥ अकस्मादेव निर्वर्ण्य, मुनि निजगृहाङ्गणे । व्यकल्पयदसौ चित्ते हर्षोत्कर्षवशादिति ॥ ३६॥ संचेताः किमयं चिन्ता-मणिश्चिन्तितवस्तुदः । अपशुः कामधुगधेनुः, किमसौ गुणमन्दिरम् ॥३७॥ जङ्गमः किमयं कल्प-शाखी सङ्कल्पितावहः । दृश्यते यत्स एवैष, मुनिर्मासमुपोषितः ॥३८॥ भद्रं भद्रतरं भद्र-तमं यन्मे गृहाङ्गणम् । तमो नुदन् पुपावैष, स्वंपादैर्मुनिभास्करः ॥ ३९ ॥ १ दृष्ट्वा. २ सजीव. ३ सूर्यपले स्वकिरणः. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117