Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्यशाली JE
महाकाव्यम्
सर्गः६ | ॥१०८॥
॥१०८॥
و باورند
दुष्कराध्यवसायेन, तयोरत्यन्तपीडिता । विलापानिति सा कर्तु-मारेभे शोकविहाला ॥ ९७ ॥ गृहमप्यागतौ वत्सौ, न ज्ञातौ मन्दभाग्यया । दृष्टौ मया न दृष्टयापि, युवां नैवाभिवन्दितौ ।। ९८ ॥ स्थित्वा सुरकृते रम्ये, प्रासादे सप्तभूमिके । अरण्ये स्थास्यते वत्स, त्वया व्यालाकुले कथम्।। ९९ ।। यात्रिंशत्तूलिकासूच्चै-स्तथाऽसुप्था यथासुखम् ।सुप्यते च कथं वत्स, कर्कशेऽस्मिन् शिलातले॥१०॥ कृत्वा विलेपनं वत्स, देवानीतैविलेपनैः । स्वेदपङ्कोऽधुना गात्रे, धार्यते दुःसहः कथम् ॥ १॥ आकर्ण्य काकलीगीतं, त्वं श्रुत्योरमृतं स्रवत् । वत्स घूकशिवारावान, कथमाकर्णयिष्यसि ॥२॥ आसीत्ते तादृशी भक्ति-मयि वत्साधुना तु माम् । विलापान्कुर्वतीमित्थं, न दृष्ट्याऽप्यवलोकसे॥३॥ अथ चैवंविधा एव, बान्धवेतरयोरपि । भवन्ति गतसङ्गत्वा-साधवस्तुल्यचेतसः ॥४॥ तथापि त्वं ममानन्दं, दृशोरुत्पादयिष्यसि । निजदर्शनमात्रेण, पुरेत्यासीन्मनोरथः॥५॥ अनेन पुनरारम्भे-णाल्यागविधायिना । तं मे मनोरथं वत्स, साम्प्रतं भक्तमुद्यतः॥६॥ करोषि यत्तपस्तत्र, नान्तरायं करोमि ते । कर्कशेयं शिला किन्तु, त्यक्त्वेमां तदितो भव ॥७॥ विलापान्कुर्वतीमेव-मादिकानवलोक्य ताम् । अस्थाने विद्यते भद्रे, किं त्वयेत्यवदन्नृपः॥ ८॥ यस्याः सुतोऽग्रहीदीक्षा, त्यक्त्वेन्द्र श्रीसमां श्रियम् । सा त्वं पुत्रवतीष्वेका, पताकां परमामगाः॥९॥ तत्ववेदी सुतस्तेऽसो, महासत्त्वशिरोमणिः। शिश्राय स्वामिपादाब्ज, नि:पक राजहंसवत्॥१०॥
منان الشاب العجالب
ال
For Private and Personal Use Only

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117