Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
धन्यशाली
भद्र
॥११३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाल्ये
भारवांस्ततः समुद्गाज्जिनदत्तसूरि-व्यारविन्दचयबोधविधानदक्षः । गावः स्फुरन्ति विधिमार्गविकासनैक-तानास्तमोविदलनप्रवणा यदीयाः ॥६॥ श्रीजिनदत्तसूरिविभुभिर्ये दीक्षिताः शिक्षिता, दत्त्वाचार्यपदं स्वयं निजपदे तैरेव संस्थापिताः । ते श्रीमजिनचन्द्रसरिगुरवोऽपूर्वेन्दुबिम्बोपमा, न ग्रस्ता तमसा कलङ्कविकलाः क्षोणौ बभूवुस्ततः ॥ ७ ॥ यैर्वादीन्द्रकद्रदर्पदलने सिंहैरिव स्फूर्जितं, मोहध्वान्तविनाशने भुवि सदा सूर्यैरिवोज्जृम्भितम् । भव्यप्राणिसमूहकैरववने चन्द्रैरिवेोद्गतं । ते श्रीमजिनपत्याभिख्यगुरवोऽभूवन् यतीशोत्तमाः ॥ ८ ॥ तेषु स्वर्गाधिरूढेष्वह बहुगुणस्तद्विनेयावतंसः, साधुर्वीरप्रभाख्यः सकलगणधुरा धुर्यव योजितश्रीः
आचार्यैः सर्वदेवैर्विहितगुरपदोऽधिष्ठितस्तन्महिम्ना, नामानं लम्भितः श्रीवसतिनिवसतिस्थापनाचुञ्चभूरेः ॥ ९ ॥ श्रीचन्द्रगच्छमभिनन्दति शास्ति पाति, तीर्थ प्रभावयति सम्मति जैनचन्द्रम् ।
यः श्रीजिनेश्वर इवाप्रतिमैर्वचोभि-वृत्तैरिव त्रिभुवनं पृणति प्रसीतः ॥ १० ॥
| तदाज्ञया सद्गुणसर्वदेवाचार्यैः समं जैसलमेरुदुर्गे । स्थितो गिरैषां स्वपरोपकारहेतोः समाधि मनसोऽभिलव्यन् ॥ ११ ॥ शर वसु रविसङ्घये (१२८५) वैक्रमे वत्सरेऽस्मिन्, षति तपसि मासे शुक्लपक्षे दशम्यांम् । जिनपनि गुरुशिष्यः पूर्णभद्राभिधानो गणिरकृत चरित्रं धन्यगोभद्रमन्वोः ॥ १२ ॥
For Private and Personal Use Only
兆美眺美美美美美
महाकाव्यम् सर्गः ६
| ॥११३॥

Page Navigation
1 ... 113 114 115 116 117