Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्यशाली भद्र॥१.९॥
महाकाव्यम्
सर्गः ६ | ॥१.९॥
सूनुस्तेऽसौ बीरशिष्याऽनुरूपं तप्यते तपः । तप्यते तु स्वया मुग्धे, मुधैव स्त्रीस्वभावतः ॥ ११ ॥ भद्रे धन्यौ कृतार्थों ते, जामातृतनयाविमौ । आराध्यते यकाभ्यां तू-समार्थ प्रतिपत्सितः ।।१२।। तथा पुरप्रवेशेऽद्या-तिसध्या वर्ततेऽधुना । तद्गम्यते समुत्तिष्ठ, नगरे निजवेश्मनि ॥ १३॥ इत्यादि मधुरालापैः, श्रेणिकः पृथिवीपतिः । सशोकां श्रेष्ठिनी भद्रा, सवधूकामबूषुधत् ॥ १४ ॥ अभिवन्ध ततो भद्रा, वाचंयमशिरोमणी । रुदितक्षीणकण्ठाऽगा-द्विमनस्का मिजं गृहम् ।। १५ ॥ भेम्भासारोऽपि तौ साधू, वन्दित्वा सपरिच्छदः । अहक्तिपवित्रात्मा, प्रविवेश निजं गृहम्॥१६॥ तो पुनः सम्यगाराध्या-नशन सुसमाहितौ । धन्यश्च शालिभद्रश्च, मुनी पञ्चत्वमापतुः ॥ १७ ॥ अवबुध्यानयोः काल-गमनं स्थविरास्ततः । निर्वाणप्रत्ययं चक्रुः, कायोत्सर्गमभीरवः ॥ १८ ॥ पादमूले जिनेन्द्रस्य, ते समेत्य प्रणम्य च । निवद्धाञ्जलयो नम्र-मूर्धान इदमूचिरे ॥ १९॥ भगवन् भवतां शिष्यो, तौ प्रकृत्यैव भद्रको । आराध्यानशनं सम्यकीर्तिशेषत्वमापताम् ॥ २० ॥ अथेन्द्रभूतिर्भगवान्, प्रथमो गणभृवरः । निजरूपपराभूता-नुत्तरस्वर्गनिर्जरः ॥ २१ ॥ समचतुरस्त्रं संस्था-नमुत्तमं धारयंश्चतुर्ज्ञानी । वर्षभनाराचा-भिधानसंहननवलशाली ॥ २२ ॥
श्रीपृथ्वीवसुभूत्या-जन्मा सप्तकरोच्छूयः । चारुचामीकरच्छायः, स्वर्णाद्रिरिव जङ्गमः ॥ २३ ॥ १ श्रेणिकः
HEADLI.BUDDOOOoral
For Private and Personal Use Only

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117