Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 104
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit धन्यशाली भद्र महाकाव्यम् सर्गः६ IBE ॥१.२॥ ॥१०२॥ ف قال فالاوفتا وقنا وقنا المعادلات القفطا तस्प वाचंयमस्यैव, प्रणनाम पदाम्बुजम् । मस्तकस्पृष्टभूपृष्टो, भक्तिनिर्भरमानसः ॥ १३ ॥ पूर्व सन्मुनिसम्पर्का-भावितोऽपि विवेकभाक् । विशिष्टज्ञानहीनोऽपि, साधूपासनतत्परः ॥१४॥ कायोत्सर्गस्थितस्यैव, यतिनः पादमर्दनात् । असौ विश्रामणां चक्रे, प्रबुद्ध श्रावको यथा ॥ १५॥ युग्मम् धन्योऽस्मि कृतपुण्योऽस्मि, कृतार्थोऽस्मीह निश्चितम् । योहं वाचंयमस्यास्य, निःपकं पादपङ्कजम् ॥१६॥ पश्यामि प्रातरुत्थाय, भृङ्गवत्प्रतिवासरम् । इति चिन्तयतस्तस्य कियन्तोऽपि ययुर्दिनाः ॥१७॥ कायोत्सर्गेण तिष्ठन्तं, सर्वदा वीक्ष्य तं मुनिम् । प्रविशन्तमनालोक्य, भिक्षार्थ ग्राममध्यतः ॥१८॥ नित्यमासेवमानेना-ज्ञायि सङ्गमकेन तु । विधत्ते पारणां नैव, महात्माऽयमिति ध्रुवम् ॥१५॥ युग्मम् मद्देहे तदयं साधुः, पारणां कुरुते यदि । तदालं पुण्यवानस्मी त्यचिन्तयदहर्निशम् ॥ २०॥ अथान्येयुरभूत्कोऽपि, शालिग्रामे महोत्सवः । पायसं राध्यते तत्र, लोकैः सद्मनि समनि ॥२१॥ सङ्गमस्तर्णकांस्त्यक्त्वा, बहिः साधुमुपास्य च । तदा ग्राममुपागच्छन्, भुज्यमानं गृहे गृहे ॥२२॥ पायसं प्राज्यखण्डाज्य-सन्मिश्रमवलोकयन् । मातृपाश्चै निजे गेहे, भोजनार्थमुपागमत् ॥२३॥युग्मम् ययाचे पायसं सोऽम्बां, परमान्नाभिलाषुकः । सा जगाद दरिद्राऽस्मि, परमान्नं कुतोऽस्ति मे ॥२४॥ तथाप्यज्ञतया तेन, याच्यमाना निरन्तरम् । पूर्वावस्थां स्मरन्ती सी, रुरोदोच्चैःस्वरं ततः ॥२५॥ तस्याः रुदितमाकर्ण्य, प्रातिवेश्मिकयोषितः। आसन सशोकास्तत्कष्टानुविद्धहृदया इव ॥ २६॥ هنا For Private and Personal Use Only

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117