Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
13 महाकाव्यम्
धन्यशाली भद्र॥९४॥
عود
सर्ग:५ ॥ ९४॥
ع و
तथा संवत्सरं नाम, गुणरत्नपदादिकम् । सिंहनिक्रीडितं वेधा, तप्यते स्म महामुनी ।। २७ ।। षष्ठाष्टमे च दशम-द्वादशके पक्षपक्षयुगले च । मासयमासत्रय-मासचतुष्कादिकं च तपः॥९८॥ विधाय तावनिर्विणो, पारणं चक्रतुर्मुनी । निर्निदानमनोवृत्ती, निश्चलावचलाविव ॥ ९९ ।। युग्मम् अभूतां तपसाऽनेन, दुष्करेण महीयसा | कृशाङ्गलतिकावेतो, जीर्णस्थागृपमौ मुनी ॥ १०॥ भगवानथ सिद्धार्थ-पार्थिवान्वयभूषणः । सप्तहस्तप्रमाणाङ्ग-यष्टिरष्टापदद्युतिः ॥१॥ आकाशचारिणा पूर्ण-चन्द्रबिम्बानुकारिणा । विस्तीर्णेनोकतेनोव-मातपत्रेण शोभितः ॥२॥ चारुचामरयुग्मेन, कौमुदीन्दुकराता । बीज्यमानो नभस्थेन, प्रभुः प्रचलता स्वयम् ॥ ३ ॥ रत्नसिहासनेनोच्चैः, पादपीठोपशोभिना । तन्वानो विभुराश्चय, लोकानां व्योमगामिनाम् ॥ ४॥ नेताऽहनेक एवेति, नूनमूर्वीकृतेन खे । धर्मेणेन्द्रध्वजेनोच्चै-भुजेनैवोपशोभितः॥५॥ पुरः प्रचलता धर्म-चक्रेण सेवितः प्रभुः । विजेतुं क्रूरकर्मारि-चक्रं चक्रीव दिग्जये ॥६॥ दिवि दुन्दुभिभिस्तारं, ध्वनपिशोभितः । स्तूयमानगुणः स्वामी, मागधैरिव साधुभिः ॥७॥ नवभिः स्वर्णकमले।, श्रीयमाणपदः प्रभुः। तल्लक्ष्माजश्रियः प्राप्तः, स्वधुनीनलिनैरिव ॥८॥ अहंपूर्विकया देवैः, सेव्यमानश्च कोटिशः । सौरभादिगुणाकृष्टः, पद्माकर इवालिभिः ॥९॥ सौम्याकृतिरसौ श्वेत-वासोभिर्मुनिभिर्वृतः । स्फाटिकरिव नक्षत्र-विमानैश्चन्द्रमण्डलः ॥१०॥ १ सुवर्णकान्तिः
ل الافلاكا للانتقالات العام علی
For Private and Personal Use Only

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117