Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 90
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र॥८८॥ महाकाव्यम् सर्ग:५ ||८८॥ पञ्चाक्षत्वेऽपि चारोग्यं, दुरापं जनताप्रियम् । तदिना सर्वसामग्री, चतुर्वर्गेऽपि निःफलाः ।। १९ ।। आरोग्येऽपि प्रियं सर्वप्राणिनामायुरेव हि । जीवितव्य कृते जन्तु-र्यद्राज्यमपि मुश्चति ॥ २० ॥ दीर्धेऽप्यायुषि सद्धर्म-बुद्धिः शुद्धा गवेव्यते । तया विना यदज्ञान-कष्टं सर्वा अपि क्रियाः२१॥ धर्मवुद्धावपि श्लाघ्या, सद्गुरोर्वचनश्रुतिः सा तां विना निर्लवण-रसवत्लादिसोदरा ॥ २२ ॥ आप्तवाक्यमपि श्रुत्वा-ऽवग्रहस्तत्त्वगोचरः । श्रेयान् यतो विपर्यासो, जायते विपदे नृणाम् ।। २३ ॥ अवग्रहेऽपि या श्रद्धा, तत्त्वनिश्चयगोचरा । संसारदुःखविच्छेदे, निदानं सैव देहिनाम् ।। २४ ।। ज्ञात्वा श्रद्धाय तत्त्वानि, संयमः समनुष्ठितः । अक्षेपमोक्षदः पुंसां, सामग्येषा शुभश्रियाम् ॥२५॥ यथोत्तरं सुदुःयापा, दृष्टान्तै-चोल्लकादिभिः । प्राप्ता भवद्भिरप्येषा, सफलीक्रियतां ततः ।। २६ ।। श्रुत्वा श्रीमन्महावीर-स्वामिनो देशनागिरः। तुतुषुः पीतपीयूषा, इव सर्वे सभासदः ॥ २७ ।। अथाभ्युत्थाय सर्वेऽपि, प्रणम्य जगतां गुरुम् । कृतकृत्या इवाविक्ष-नगरं श्रेणिकादयः॥ २८ ॥ नत्वोचतुर्जिनाधिश-मिभ्यगोभद्रनन्दनौ । धर्मोऽयमरुचन्नाथो-पदिष्टोऽतिशयेन नौ ।। २९ ॥ तद्यावद्वेश्मनः स्वास्थ्य, कुर्वश्चेत्यादिसत्क्रियाम् । तावदङ्गीकरिष्याव:, संयम युज्मदन्तिके।। ३०॥ भगवांस्तावुवाचवं, युक्तं भव्याङ्गिनामदः । भो भद्रौन विधातव्या, प्रतिबन्धो गृहादिषु ॥ ३१॥ १ चतुर्धर्गा इति प्रत्यन्तरे نما ستفحالمقالالالالالالالالالاالل ه For Private and Personal Use Only

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117