Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महाकाव्यम्
धन्यशाली भद्र।।८२॥
॥
२॥
انشالليالطلبات العالمي للاولادونجور
माता-यद्यप्येवमिदं वत्स, तथापि परिकर्मणां । विधेहि स्वशरीरस्य, भोगापरिहारतः॥४०॥ सुकुमारशरीरोऽभू-प्रकृत्यैव यतो भवान् । प्रकृष्टदेवभोगाडै लालितश्च विशेषतः ॥४१॥ अतो देवाहृतान् गन्ध-माल्यभोज्यादिकांस्त्यज । मनुजानां सहस्वैतां-स्तथा सम्बोधय प्रियाः ॥४२॥ पुरान्तर्वर्तिचैत्यानि, पूजय प्रतिवासरं । सत्साधुवन्दनाहेतो-व्रज त्वं तदुपाश्रयम् ।। ४३ ।। सामायिकाद्यनुष्ठानं यथावसरमाचर । एवमभ्यासतो वत्स, प्रव्रज्या सुकरा तव ॥ ४४ ॥ विनयी शालिभद्रोऽपि, प्रतिशुश्राव तद्वचः। न कदापि वचो मातुलैवयन्ति हि सत्सुताः॥ ४५ ॥ अथासौ कर्तुमारेभे, वपुषः परिकर्मणां । तत्याज त्रिदशाहार-गन्धमाल्यादि सर्वथा ॥ ४६॥ मनुष्याहारभोगादि-परिकर्मणि चिन्तिते । प्रणम्य पितरं भक्त्या, विससज प्रमोदभाक।। ४७॥ मर्त्यसम्बन्धिभोगाङ्ग-परिमाणमसौ व्यधात् । द्वात्रिंशतश्च तूलीना-मेकैकां मुमुचेऽन्वहम् ॥ ४८ ॥ शालिभद्रोऽन्यदा सिंहा-सना सीनो निजाः प्रियाः। आहूय प्रावदत्सर्वाः, सुधामधुरया गिरा ॥४९॥ भो भोः पद्मावतीमुख्याः, श्रूयतां कुलबालिकाः । क्षणं चावहितीभूय, मदीयं वचनं स्फुटम् ॥५०॥ विनयेनाञ्जलिं वध्ध्वा, ततस्ता इदमूचिरे । अस्मानाज्ञापयत्वार्यपुत्रः प्रीतिकरः सताम् ॥ ५१॥ ततः श्रीशालिभद्रोऽपि, प्रोचे प्राज्ञशिरोमणिः। संसारे प्राणिनः प्रायः सर्वऽपि विषयैषिणः ॥६॥ १ सावधानाः भूत्वा
انميات للعالم الثالث الثاننللطة التالشلل العام الحالا
For Private and Personal Use Only

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117