Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 87
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ८५ ॥ www.kobatirth.org किन्त्वेक एव हि भ्राता, शालिभद्राऽभिधोऽस्ति मे । एकैकतूलिकात्यागं करोति व्रतवाञ्छया ||८०|| आगते तु महावीरे, सम्प्रत्यादास्यते व्रतम् । इति हेतोरभूदश्रुपातो मे जीवितेश्वर ।। ८१ । तथा नाथ कियन्तोऽन्ये, सन्तीह भ्रातरो मम । येषामनुभविष्यामि, शोभोत्कर्ष क्षणांदिषु ॥ ८२ ॥ ततश्चेभ्याङ्गजः प्राह यद्येवं तर्हि मा प्रिये । कुरुष्व त्वं मनःखेदं भ्राता कापुरुषस्तव ॥ ८३ ॥ एकैकतूलिकां मुञ्चन् कथमादास्यते व्रतम् । सत्पुरुषाः शुभे कार्ये, न क्षिपन्त्यपि हि क्षणम् ॥ ८४ ॥ इति स्वभर्तुर्वचनं, सा निशम्य सनर्मकं । अभाषातेर्ष्यया नाथ, सत्पुरुषस्त्वमेव हि ॥ ८५ ॥ यस्त्वमेकपदेनैव परित्यज्याखिलां श्रियम् । सनत्कुमारचक्रीव, व्रतमङ्गीकरिष्यसि ॥ ८६ ॥ अन्ये अपि धर्मिण्या - वूचतुर्नर्मपूर्वकम् । भद्रं भद्राङ्गजा छूते, स्वामिन् भद्राभिलाषिणी ॥ ८७ ॥ सुतनु स्नापय क्षिप्रं येन श्रीवीरसन्निधौ । पश्यथ प्रव्रजन्तं मां त्यक्ताशेषपरिग्रहम् ॥ ८८ ॥ इयत्कालं भवत्यो मे, व्रताग्रहणहेतवः । भवतीष्वनुकूलासु, सुग्रहं व्रतमय मे ॥ ८९ ॥ इति पत्युर्वचः श्रुत्वा, ताः प्रोचुर्गतसम्मंदाः । स्वामिंस्त्वयि परिहास, एषोऽस्माभिर्व्यधीयत ॥ ९० ॥ परिहासगिरां स्वामिन्, कियदन्तं गमिष्यसि । न दृष्टः परिहासो हि, स्वभत्र सह योषिताम् ॥९१॥ तन्नाथास्मान् श्रियश्चैवं, मा त्याक्षीर्नित्यलालिताः । भवतोऽप्याश्रितत्यागे, भविष्यत्यगशो महत् ॥ १ उत्सवादिषु २ सोपहासम् ३ गतहर्षाः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्ग: ५ ॥ ८५ ॥

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117