Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 85
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ८३ ॥ www.kobatirth.org विषयाश्च भवन्त्यत्र, धनेन हृदयेशिताः । धनं च प्रप्यते प्रायः पापारम्भपरिग्रहैः ।। ५३ ।। कर्मबन्धः पुनस्तेभ्यो भवेत्संसारकारणम् । तत्र चानन्तदुःखानि नरकादिषु देहिनाम् ॥ ५४ ॥ भार्यास्ततो रदज्योत्स्ना - धवलीकृतदिङ्मुखाः । भर्तुर्वचोऽमृतातृप्ता, विहस्येषद्वभाषिरे ॥ ५५ ॥ आर्यपुत्र विनारम्भं, भोगाः सन्त्यद्भुतास्तव । यत्पिता पूरयत्येतान् पुण्याद्देवत्वमाश्रितः ।। ५६ ।। ततो नाथ कथं कर्म-बन्धस्ते सम्भविष्यति । तद्भावे च दुःखानि, भविष्यन्ति कथं ननु ॥ ५७ ॥ शालिभद्रोप्युवाचैव-माभियोगिककर्मणः । बन्धः स्याद्देवतानीतं भुञ्जानस्य ममानिशम् ॥ ५८ ॥ विषयाः खत एबैते, मानसोन्मादहेतवः । पातयन्ति ध्रुवं जन्तून् भीषणे नरकावटे ।। ५९ ।। अत एव विहाय विषयानष्टौ चक्रिणः सीरिणो व्रतम् । गृहीत्वा लेभिरे मोक्षं, द्वौ चैकश्व सुरालयम् सुन्दर्यस्तदलं भोगैः, परंप्रेष्यत्वहेतुभिः । आदास्येऽहं परिव्रज्यां येनान्यः स्यान्न मे प्रभुः ॥ ६१ ॥ युष्मासु याश्च सभ्रूणा, बालवत्साश्च या पुनः । देशतस्ता गृहे धर्म-मम्यापार्श्वे प्रकुर्वताम् ॥ ६२ ॥ तिष्ठत्येव गृहे प्राज्यं धनमासप्तसन्ततेः । दानभोगक्षमं तेन कुर्वीध्वं हितमात्मनः ॥ ६३ ॥ अन्याः पुनर्मया सार्द्ध — मङ्गीकुर्वन्तु सद्व्रतम् । धर्मो ह्ययं कुलश्रीणां यत्प्रेयाननुगम्यते ॥ ६४ ॥ इत्यञ्जसा यथौचित्यं सम्बोध्ध सकलाः प्रियाः । एकैकाममुचद्भार्या, शालिभद्रो दिने दिने ॥ ६५ ॥ अथ राजगृहक्रीडा - शैलवैभारभूषणे । श्रीमद्गुणशिलोद्याने, श्रीवीरः समवासरत् ॥ ६६ ॥ १ दासत्वकारणः २ सगर्भाः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः ५ ॥ ८३ ॥

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117