Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धम्यशाली
॥ ७८॥
एवं मानुष्यकं जन्म, धर्मसाधनसंयुतम् । असारविषयासक्ता, मा नाशयत मानवाः ॥ ९९।।
महाकाव्यम् विज्ञायावसरं श्रेष्टि-सुतः संवेगवानसौ । अपृच्छन्मुनिनेतारं, प्रस्तावज्ञा हि धीधनाः ॥२०॥ स्वामिन्नान्यः कथं स्वामी, भवत्यत्र परत्र च । धनिनामपि नृणां हि, दुःखाय परतन्त्रता ॥२०१।।
सर्गः४
J5 || ७८॥ जगदुः सूरयो धर्म-घोषास्तं श्रेष्ठिनन्दनम् । इहामुत्र न तेषां स्युः, स्वामिनः प्रव्रजन्ति ये ॥२०२।। प्रत्युत स्वामिभावं ते, लभन्ते सर्वदेव हि । सुरासुरनरेद्राणां, सेव्यन्ते तैश्च सादरम् ।।२०३।। यद्येवमहमप्यम्यां, गत्वा स्वं भगवन् गृहम् । अनुज्ञाप्य ग्रहीष्यामि, प्रवज्यामिति सोऽवदत् ॥२०४।।
प्रमादो न विधातव्यः, कर्तव्यः शीघमुद्यमः । इत्युक्तं सूरिणा येन, धर्मस्य त्वरिता गतिः ॥२०॥ व्याख्यावसाने नरपुङ्गवाद्याः, प्रणम्य सूरेश्चरणारविन्दम् । श्रीजैनधर्मश्रवणप्रमोदा-दपूर्णचित्ता निजधाम जग्मुः।।२०६॥ इति श्रीधन्यशालिभद्रमहर्षिचरिते श्रीराजगृहे रत्नकम्बलवाणिजकागमनादिशालिभद्रगृहश्रीश्रेणिकसमागमनकर्णकटुकान्यस्वाम्याकर्णनाविर्भूतभावनानन्तरकल्याणमित्रनिवेदितागमन श्रीधर्मघोषाचार्यसमीपधर्म
श्रवणपर्यन्त शालिभद्रवृत्तान्त व्यावर्णनो नाम चतुर्थः परिच्छेदः
For Private and Personal Use Only

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117