Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
धन्यशाली भद्र॥ ७७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अहः पतिरिवौजखी, विध्वंसिततमस्ततिः । शरच्चन्द्र इवामन्दा – नन्दसन्दोहवर्द्धनः ॥ ८५ ॥ गन्धहस्तीव विक्षिप्त - परवादिमतङ्गजः । मृगेन्द्र इव दुर्धर्षो ऽन्येषां प्रौढपराक्रमः ।। ८६ ।। राजहंस इवात्यन्त - शुद्धपक्षद्वयोदयः । पुंस्कोकिल इव श्रोतृ-श्रवः सुखकरध्वनिः ॥ ८७ ॥ महापृथ्वीपतिरिव, प्रधानविपुलक्षमः । प्रावृड्धाराधर इव, निर्वापितमहीतलः ॥ ८८ ॥ मेघनिर्घोषगम्भीर – घोषोत् घोरतपोनिधिः । धर्मघोषोऽभिधानेन, सूरिः सूरिगुणोत्तरः ॥ ८९ ॥ साधुकल्पविहारेण, विहरन्नाययाविह । अवातरच सोऽचैव चैत्ये गुगशिलाभिधे ॥ ९० ॥ सप्तभिःकुलकम् || सान्तःपुरपरीवारः, समं नागरिकैरपि । निर्ययौ श्रेणिकस्तस्य, वन्दनार्थं महीपतिः ॥ ९१ ॥ तदाकर्ण्याशु सानन्दः, स्यन्दनं श्रेष्ठिनन्दनः । आरुह्य सपरीवारो, निर्ययावार्यचर्यया ॥ ९२ ॥ श्रेणिको नागराः श्रेष्ठि-नन्दनो भक्तिनिर्भरम् । दत्त्वा प्रदिक्षणास्तिस्रः, सूरिपादान् ववन्दिरे ॥ ९३ ॥ सूरिः श्रीधर्मघोषोऽपि चक्रिशक्रशिवश्रियाम् । कारणं सर्वजन्तुभ्यो, धर्मलाभाशिषं ददौ ॥ ९४ ॥ यथास्थानोपविष्टेषु सर्वेषु मुनिपुङ्गवः । देशनां कर्त्तुमारेभे भवनिर्वेदकारिणीम् ॥ ९५ ॥ कोटिं वराटिकाहेतोः कोऽपि हारयते यथा । वैडूर्याख्यं महारत्नं, भिन्द्यात्सूत्रकृते कुधीः ।। ९६ ॥ लोहार्थमथवा नावं, स्फोटयत्यबुधोऽम्बुधौ । गोशीर्षचन्दनं भस्म कृते मुग्धा दहत्यलम् ॥ ९७ ॥ कर्पूरकाननं छिन्द्यात्कोद्रवावृतिहेतवे । धूतं जात्यसुवर्ण च पूत्कृत्य गमयत्यधीः ॥ ९८ ॥
For Private and Personal Use Only
महाकाव्यम् सर्गः ४ || 99 ||

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117