Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 75
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र - ॥ ७३ ॥ www.kobatirth.org ततो नानाविधा दन्ते, विच्छित्तीरतिबन्धुराः । तद्भाजने निचिक्षेप, सा शालीन्मण्डकादि च ॥ ३३ ॥ भुक्ते सत्यपनीतानि, भाजनानि पुनस्ततः । हस्तप्रक्षालनं सर्वे, पूर्ववच्चक्रिरे ततः ॥ ३४ ॥ कर्पूरशर्करामिश्र - मवित्रं श्रेष्टिनी ततः | सत्पयः पारिहहीना-मवर्त्तमुपानयत् ॥ ३५ ॥ नृपप्रभृतिसर्वेषां पीते दुग्धे सति क्षणात् । अदत्ताचमनं भद्रा, दुग्धान्तं भोजनं यतः ॥ ३६ ॥ सर्वे ते जगृहुर्दन्त-शलाकां तदनन्तरम् । ततः सुगन्धचूर्णेन, हस्तोद्वर्त्तनमादधुः ॥ ३७ ॥ साssनाय्याम्भस्ततः कोष्णं, तेषां हस्तानधावयत् । करेभ्यो धान्यदध्यादे—गन्धापगमहेतवे ॥ ३८ ॥ हस्त निर्मार्जनाहे तो — ददौ भद्राऽतिकोमलम् । गन्धकाषायिकावस्त्रं, समुत्तस्थौ नृपस्ततः ॥ ३९ ॥ विस्तीर्णे श्रेष्टिनी प्रेक्षा- मण्डपे नृपतेस्ततः । रत्नविद्योतिताशास्यं सिंहासनमदापयत् ॥ ४० ॥ चारुकर्पूरकस्तूरी— चन्दनादिविलेपनम् । पुष्पताम्बूलसंयुक्त-मानीतं भद्रया ततः ॥ ४१ ॥ ततो विदग्धनर्तक्या, गायनैर्वाद कैरपि । प्रेक्षणं कर्तुमारेभे, सुरसं गीतकोपमम् ॥ ४२ ॥ अत्रान्तरेऽवदद् भूपो, भद्रे क्वास्ति तवात्मजः । तमहं द्रष्टुमिच्छामी-क्षणानन्दक्षपाकरम् ॥ ४३ ॥ स्वामिन्नेष समायाति, शालिभद्रो ममाङ्गजः । युष्मत्पादाम्बुजं द्रष्टुमित्युदित्वा महीपतिम् ॥ ४४ ॥ एकान्तरितशोणाश्म - स्फटिकारोहणावलिम् । रक्तश्वेताम्बुज-श्रेणिं, वहन्तीमिव लम्बिनीम् ॥ ४५ ॥ १ निश्रेणिम् For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः ४ ॥ ७३ ॥

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117