Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
धन्यशाली
भद्र॥ ७० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कषाया हन्तुमारब्धा - स्त्वयाऽनन्तानुबन्धिनः । मिथ्यात्वमाश्रिताः स्वामिंस्तेनैव संह जघ्निरे ।। ९२ ।। स्वामिष्टमहाप्राति-हार्याच त्वयि राजते । कर्माष्टकक्षये शक्ति, ब्रुवाणेव तवाद्भुताम् ॥ ९३ ॥ वागेकानेकसन्देहान् देहिनां हन्ति ते विभो। भवादृशानां महिम, कः परिच्छेतुमीश्वरः ।। ९४ ।। यन्न प्रकाश्यतेऽक - वस्तृद्दामस्वधामभिः । तदप्यालोक्यते तेन, ज्ञानेन निखिलं तव ।। ९५ ।। भवन्ति हि प्रसादासे, सर्वाभीष्टार्थसिद्धयः । तत्प्रसीद ममाभीष्टं, पूर्णभद्रं कुरु द्रुतम् ॥ ९६ ॥ इत्थं स्तुत्वा जिनाधीश-मसमानगुणस्तवैः । पञ्चभिर्दण्डकैश्चैत्य-वन्दनं च प्रचक्रमे ॥ ९७ ॥ वामं जानुं समाकुञ्च्य, दक्षिणं न्यस्य भूतले । पुरो वस्त्राचलेनाय्यं, स्थगयन्त्रचिताञ्जलिः ॥ ९८ ॥ न्यस्तदृष्टिर्जनाचयां, सुव्यक्तं योगमुद्रया । शक्रस्तवमसौ भूपो, भक्त्या शक्र इवापठत् ॥९९॥ युग्मं प्रतिक्रामत्य सावीर्या - पथिकां विधिना ततः । पुनः शक्रस्तवं पूर्व - रीत्याऽपाठीनरेश्वरः ॥ १०० ॥ रोमाञ्चितवपुर्भूपो योगमुद्रादिपूर्वकं । वक्ष्यमाणक्रमेणाथ, विदधे चैत्यवन्दनाम् ॥ १ ॥ तत्राया जिनमुद्राख्या, योगमुद्राऽभिधाऽपरा । मुक्ताशुक्तिस्तृतीया तु, तिम्रो मुद्राः प्रकीर्तिताः ॥ २ ॥ शक्रस्तवे योगमुद्रा, जिनमुद्रा तु वन्दने । मुक्ताशुक्त्यभिधा मुद्रा, प्रणिधानविधौ भवेत् ॥ ३ ॥ कृपापरायणस्वान्ताः, श्रीमन्तः पूर्वसूरयः । पञ्चभिर्दण्डकैवेत्य वन्दनामेवमूचिरे ॥ ४ ॥ शक्रस्तवस्तावदिहादिदण्डक-स्तस्याभिधाने विधिरेष गीतः । भून्यस्तजानुः करसम्पुटी च स न्यस्तदृष्टिर्जिनबिम्ब एषः ५
For Private and Personal Use Only
महाकाव्यम् सर्गः ४
॥ ७० ॥

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117