Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
धन्यशाली भद्र — ॥ ६९ ॥
www.kobatirth.org
ततः स्नानं जिनानां स्वर्णकुम्भैर्महीपतिः । स्वयं शक्र इवाकार्षीत्, सहर्षो गन्धवारिभिः ॥ ७९ ॥ गोशीर्षचन्दनेनाङ्ग-रागं कृत्वा विशेषतः । सद्गन्धैर्विविधैः पुष्पै - भूपस्ताः पर्यपूपुजत् ॥ ८० ॥ कालागुर्वादिसद्रव्य - निष्पन्नं धूपमुत्तमम् । दग्ध्वा सुगन्धमाधन्त, गर्भागारं नरेश्वरः ॥ ८१ ॥ अखण्डैस्तन्दुलैः कुन्द-कोशसब्रह्मचारिभिः । मङ्गलानि लिलेखाष्टौ स्पष्टं तुष्टः पुरो नृपः ॥ ८२ ॥ पूजामेवं विधायोच्चैः, सन्त्यज्यार्हदवग्रहम् । दक्षिणेन जिनाचया स्तस्थौ श्रेणिकभूपतिः ॥ ८३ ॥ अवग्रहश्च सिद्धान्ते, त्रिविधो गणधारिभिः । जघन्यमध्यमोत्कृष्ट-भेदेन प्रतिपादितः ॥ ८४ ॥ षष्टिस्तप्रमाणेऽसावुत्कृष्टोऽवग्रहो मतः । जघन्यो मवहस्तस्तु ज्ञेयः शेषस्तु मध्यमः ॥ ८५ ॥ निरीक्ष्य चक्षुषा भूमिं वस्त्रान्तेन प्रमृज्य च । उत्तरासङ्गमाधन्त, पूर्ववन्नरपुङ्गवः ॥ ८६ ॥ ततो ननाम पञ्चाङ्ग – प्रणिपातेन भूपतिः । जानुद्रयं करद्वन्द्व-मुत्तमाङ्गं च पञ्चमम् ॥ ८७ ॥ ततः संवेगजनकै- रसमानगुणस्तवैः । नृपतिः स्तोतुमारेभे, त्रैलोक्याधिपति जिनम् ॥ ८८ ॥ त्वया रागोरगो नाथ, वक्रः क्रूरोऽतिदारुणः । विनंतानन्दनेनेव, सत्पक्षेण न्यहन्यत ॥ ८९ ॥ द्वे द्वेषमत्यन्त- रोषणं भीषणं भवान् । अतिप्रौढबलः स्वामिन्, महाभट इवाजयत् । ९० ॥ प्रभो मोहपिशाचोऽयं, छलान्वेषी न्यगृह्यत । त्वया सस्फुरमन्त्रेण, मान्त्रिकेणेव धीमता ॥ ९१ ॥ १ गरुडेन.
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
महाकाव्यम् सर्गः ४ ॥ ६९ ॥

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117