Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्यशाली भद्र॥ ६८॥
महाकाव्यम् म सर्गः४
||६८॥
CrimOODommema
धराधिनाथभाया, अपि प्रावरणाय सः। न मेऽस्तीति पुरावादी-रत्र किं वक्ष्यसि प्रिये ॥६५॥ पुष्करिण्याः कृतक्रीडा, समं चेल्लणया नृपः । ऐरावत इवाऽभ्रम्वा, सलीलमथ निर्ययौ ॥६६॥ गन्धकाषयिकावस्त्र-मुपानाय्याशु भद्रया । निर्जला कार्यते तस्य, तनुर्वापी यथा पुरा ॥६७।। विलेपनमुपानीय, गोशीर्षादिकमुत्तमम् । परिवारसमेतस्य, विलिप्याझं महीपतेः ॥१८॥ नानादेशोद्भवैर्वस्त्रै-श्वारुचीनांशुकादिकैः । नरेन्द्र सपरीवारं, श्रेष्टिनी पर्यधापयत् ॥६९।। अत्रान्तरे च विज्ञप्तः, सूपकारेण भूपतिः । प्रस्तावो देवपूजायाः, समभूदधुना प्रभो ॥७॥ अवतीर्य धराधीश-श्चतुर्थीमथ भूमिकाम् । द्वारमुद्घाटयामास, तीर्थकृच्चैत्यसद्मनः ॥७|| तत्राहत्प्रतिमाः स्वर्ण-रत्नमय्यो मनोहराः। दृष्ट्वाऽतिमुदितो भूप-श्चिन्तयामास चेतसि ॥७२॥ धन्यस्तावदयं शालि-भद्रो भद्रात्मजः सुधीः । यस्येचैत्यसामग्री, लोचनानन्ददायिनी ॥७३॥ धन्योऽहमीदृशा यस्य, वणिजः पुण्यभाजनम् । धार्मिका धनवन्तो य-तत्सुवर्णस्य सौरभम् ।।७४॥ पुष्पदन्तात्पुरो वाम-स्कन्धपृष्ठे दशा दधत् । एकशाटयुत्तरासङ्गं, विदधे वसुधाधवः ॥७॥ बध्वाञलिनमन्बुच्चै-जयेति मुहुरुद्गृणन् । प्रविवेश विशामीश-स्तीर्थकृद्धेश्मनोऽन्तरम् ॥७६।। अत्रान्तरे निजैर्मत्यैर्भद्रा भद्राभिलाषिणी । पूजोपकरणं सर्व, पुष्पादिकमढौकयत् ॥७७।। करप्रक्षालनं कृत्वा मुखकोशं विधाप्य च । निर्माल्ययित्वा सर्वार्चाः, ससम्भ्रमममार्जयत् ।।७८।।
هیان ساناهیان بیانابینایان
For Private and Personal Use Only

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117