Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 69
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ ६७ ॥ www.kobatirth.org कुर्वाणस्य जलक्रीडा - मेवं भूपस्य निर्भराम् | सन्मुद्रारत्नमङ्गुल्याः पपातालक्षितं जले ॥ ५२ ॥ यावन्निरीक्षते ताव- दद्गुलीं स्वां नराधिपः । पश्यति स्म विशोभां तां च्युतरत्नामिवोर्मिकाम् ॥ ५३ ॥ ततस्तमतिसम्भ्रान्तं भूपति तरलेक्षणम् । दृष्ट्वा भद्राऽप्यसम्भ्रान्ता, प्राह किं किमिति प्रभो ॥५३॥ मुद्रारत्नं ममागुल्याः परिभ्रष्टमलक्षितम् । निर्भरं क्रीडतो वाप्या-मिति भद्रां नृपाऽऽवदत् ॥५४॥ मुद्रारत्नोपलम्भार्थ, भट्टा दासी मथादिशत् । क्रीडापुष्करिणीनीरं, हले सञ्चारयान्यतः ॥ ५५ ॥ ततश्चकर्ष पानीयं कीलिकाकर्षणेन सा । सद्यः सस्फुरमन्त्रेण, सिद्धमन्त्रेव योगिनी ॥ ५६ ॥ राजाऽलङ्काररत्नांशु - चितं पुष्करिणीतलम् । पयः पूर्णमिवापश्यद्वतेऽप्यन्यत्र वारिणि ॥५७॥ मुद्रारत्नं च तत्स्वर्णमणिभूषान्तरस्थितम् । पिकपोतमिवाऽशोमं, चक्रवाकौघमध्यगम् ||१८|| या काकमिवाकान्तं सुवर्णान्तर्व्यवस्थितम् । अङ्गारमित्र निस्तेजो, ददर्श श्रेणिकः पुरः || ५९ ॥ युग्मं || प्रासीसरत्करं यावदादातुं नृपतिस्तकत् । स्नुषानिर्माल्यमस्पृश्य मिति भद्रा न्यवारयत् । ६०|| ततश्च ज्ञापयामास, श्रेष्टिनी निजचेटिकाम् । क्षालयित्वा हले मुद्रा-रत्नमर्पय भूभुजे ॥ ६१ ॥ तदेवादाय साय चेटी, क्षालयित्वाऽमलैर्जलैः । मुद्रारत्नमदाभस्मै, शीघ्रमालिप्य चन्दनैः ||३२|| शालिभद्रवधूटीनां निर्माल्याभरणान्यसौ । दृष्ट्वा सविस्मयो भूप - वेलणामुखमैक्षत ||३३|| रत्न कम्बलसत्कनि, पादप्रोञ्छनकान्यहो । क्रियन्तेऽत्र पुरे स्त्रीणां नैगमानामपि प्रभो ॥६४॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः ४ ॥ ६७ ॥

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117