Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 67
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र महाकाव्यम् सर्गः ४ Pl॥६५॥ पूर्वस्यां चामरत्नानि विद्यन्ते कोशवेश्मसु । तानि यान्यन्धकारेऽपि, समुद्योतं वितन्वते ॥२५॥ तत्र श्रेणिकराजस्य, सिंहासनमदापयत् । चेल्लणायाः पुनर्भद्रा-सनं भद्रा स्वपूरुषैः ॥२६॥ तत्राभयकुमारादि-मन्त्रिणामप्यदापयत् आसनानि यथोचित्यमौचित्यं हि परो गुणः ॥२७॥ ततः सुखासनासीन:, श्रेष्ठिनी क्षितिपोऽवदत् । शालिभद्रः स्फुरद्रो, भद्रे कास्ते सुतस्तव ॥२८॥ स्वामिन् युष्मत्पदाम्भोजो-पचारे विहिते सति । स्वस्वामिदर्शनायाशु, शालिभद्रः समेष्यति ॥२९॥ परमद्य प्रमोदाय, प्रभो मेऽनुग्रहं कुरु । स्नानादिभिरिति प्राह, भद्रा श्रेणिकभूपतिम् ॥३०॥ सदोषरोधशीलत्वा-तद्वचोऽमस्त भूपतिः। महान्तोऽगण्यदाक्षिण्य-पुण्यात्मानो भवन्ति यत् ॥३१॥ विविक्ते चेल्लणां स्थाने, स्थापयित्वा विलासिनीः। तस्या आज्ञापयन्द्रा-ऽभ्यङ्गोवर्तनहेतवे ॥३२॥ लक्षपाकादिकं तैलं निर्मलं घाणतर्पणम् । चूर्णानि च सुगन्धीनि, सूक्ष्माण्यतिमृदूनि च ॥३३॥ प्रवरद्रव्यसंयोग-निर्मितानि विचक्षणः। ताभ्यःसमर्पयामास, श्रेष्ठिनी विपुलाशया ॥३४॥ युग्मम्।। कृत्वाभ्यङ्गं शरीरेऽस्या, हस्तैः कमलकोमलैः। संवाहनामिमांश्चक्रुश्चेल्लणायाश्चतुर्विधाम् ।।३।। शश्वत्पिष्टातकक्षोदै-निर्मलैस्तदनन्तरम् । तस्या उद्धर्तयामासु-विलासिन्योऽभितस्तनुम् ॥३६॥ इत्थं राजाऽपि तदाचा, मर्दयित्वाङ्गमर्दकैः । सुकुमारकरैइछेकैरवर्तनमकार्यत ॥३७॥ विशालामलशुभ्रांशु-कान्तरत्नमहाश्मभिः । निर्मितारोहणश्रेणी-स्पष्टस्फाटिककुटिमाम् ॥३८॥ لالالالالالالالالالالالاللالا طالبانی دراوس For Private and Personal Use Only

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117